SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम्. सोमिलादिकृतयात्रा पदार्थ प्रश्नानां च थावच्चापुत्र भगवदाद्युत्तरवाक्ये साक्षात्कण्ठपाठेनानादेशनात् बिंत्रप्रणतेरनुपदेशात् इत्यपि वचः कुमतिनां मोहरूपो यो ज्वरस्तदावेशस्तत्पारवश्यप्रलापः तज्जं तज्जनितं यतः मुख्यार्थैः प्रथिता प्रसिद्धा व्यवहृतिः ॥१४६॥ शब्दप्रयोगरूपा शेषान् उक्तावशिष्टान् गुणान् लक्षयेत्, हि यतः यावता सामग्र्येण यावत्या सामय्या यतना भवति तावता " यात्रा स्मृता । तथा च - " किं ते भंते ! जत्ता ? सुआ, जं मे तवणियमसंजम सज्झायज्झाणावस्लयमाईसु जोएस जयणा इत्यत्रादिपदस्वरसात् यत्याश्रमोचितयोगमात्रयतनायां यात्रापदार्थः लभ्यते, यथा परेषां ' यज्ञेन ' इत्यादि सूत्रं शतपथहितकर्मवृन्दोपलक्षकं, अतएव सोमिलप्रश्नोत्तरे यथा श्रुतार्थबाधे फलोपलक्षकत्वं व्याख्यातं तथा चात्र भगवतिवृत्तिः एतेषु च यद्यपि भगवतो न किश्चित्तदानीं समस्ति तथापि तत्फलसद्भावात् तदस्तीत्यवगन्तव्यमिति । अयं च एवंभूतनयार्थः, मागुक्तस्तु शब्दसमभिरूढयोरिति विवेचकाः ॥ ४७ ॥ साक्षादादेशगतिमप्याह वैयावृत्यतया तपो भगवतां भक्तिः समग्रापि वा वैयावृत्त्यमुदाहृतं हि दशमे चैत्यार्थ मङ्गे स्फुटम् । नैतत्स्यादर्शनादिनैव भजनाद्वारापि किन्त्वन्यथा सङ्घादेस्तदुदीरणे बत कथं न व्याकुलः स्यात्परः ॥ ४८ ॥ स्वोपज्ञ वृत्तिः श्लो. ४७ -४८ ॥१४६॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy