SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रतिमा पतकम् ॥१२८ श्लो.४२ मुत्तराध्ययनेषूक्ता, प्रज्ञापनायां तु द्वादशमुहूर्ता इत्यादौ संभवत्येव, हेतूदाहरणासंभवेऽपीत्यादिना प्रामाण्याभ्युपगमोऽप्युभयत्र तुल्य इति दिग् ॥ ४२ ॥ वृत्तिः महानिशीथ एवान्यथावचनमाशङ्कते -४३ भ्रष्टैश्चैत्यकृतेऽर्थितः कुवलयाचार्यों जिनेन्जालये यद्यप्यस्ति तथाप्यदः सतम इत्युक्त्वा भवं तीर्णवान् । एतत्किं नवनीतसारवचनं नो मानमायुष्मतां यत्कुर्वन्ति महानिशीथबलतो द्रव्यस्तवस्थापनम् ॥ व्याख्या-'भ्रष्टैः' इति-भ्रष्टेलिजमात्रोपजीविभिः चैत्यकृते स्वाभिमतचैत्यालयसंपादनाय अर्थितः पार्थितः कुवलयाचार्यः, पदैकदेशे पदसमुदायोपचारात् कुवलयप्रभाचार्यः, 'यद्यप्येतच्चैत्यालये वक्तव्यमस्ति तथापि सतमः सपापं' इत्युक्त्वा भवं संसारार्णवं तीर्णवान् , एतत्किं ? नवनीतसाराध्ययनवचनं आयुष्मतां प्रशस्तायुषां भवतां नो मानं न प्रमाणं? यन्महानिशीथबलतः महानिशीथबलमवष्टभ्य द्रव्यस्तवस्थापनं कुर्वन्त्यायुष्मन्तः । यत्र हि वाङ्मात्रेणापि द्रव्यस्तवप्रशंसनं निषिदं, तत्र कयं तस्करणकारणादिविहितं भविष्यति ? इति ॥ ४३ ॥ उत्तरयतिभ्रान्त ! प्रान्तधिया किमेतदुदितं पूर्वापरानिश्चयात् येन स्वश्रमकृप्तचैत्यममता मूढात्मनां लिङ्गिनाम्। ॥१२॥ wwwwww
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy