SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्ति श्लो.३७ टीका-'यनयुत्तरणम् 'इति-यद् मानादिलाभार्थिनां प्रवृत्तिविषयो नधुत्तरणं, तद् यदि दुष्ट स्यात्तदा तत्र खल्विति प्रतिमा निश्चये विधिव्यापारस्य विध्यर्थस्य सारःका, तात्पर्य किं १, विध्यर्थो हि-'बलबदनिष्टाननुबन्धीष्टसाधनत्वे सति कृति शतकम् - साध्यत्वं,' पापे च बलवत्यनिष्टे जायमाने तत्र विध्यर्थबाध एव स्यादित्यर्थः। तस्मादीदृशेऽधिकायुचिते नद्युत्तारादिकर्मणि ॥११९॥ ईहितस्येष्टस्य गुणस्याधिक्येन निर्दोषतां, स्वरूपतः सावद्यत्वेऽपि बलवदनिष्टानुबन्धितां विहितत्वेनैव ज्ञात्वापि तदृष्टान्तेनैव चेतः | अद्धिसंभवात , हे दुर्मते ! दुष्टबुद्धे! प्रतिमार्चनात् परिव किमिति त्रस्तोऽसि ? भयं प्राप्तोऽसि?, विशेषदर्शितस्वासप्रयोजककुमति निरासान्न स्यादयं त्रास इति भावः । उत्सर्गापवादसूत्रं चेदं नद्युत्तारे-"णो कप्पइ णिगंथाण वा णिग्गंथीण वा इमाओ उठिाओ गणियाओ वंजियाओ पंच महण्णवाओ महाणईओअंतोमासस्स दुस्कुत्तो वा तिरकुत्तो वा उत्तरित्तएवा संतरित्तएवा, तं०गंगा जउणा सरऊ एरावती मही । पंचहि ठाणेहिं कप्पंति तं०-भयंसि वा, दुभिरूसि वा, पव्वहेज वा कोई, उदओघंसि वा एज्जमाणसि महता वा, अणारिएसुति" स्थानाङ्गे । वृत्त्यैकदेशो यया-'नो कप्पइ' न कल्पयन्ते न युज्यन्ते एकवचनस्य बहुवचनार्थत्वात् , 'वत्थगंधम्' इत्यादावेवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः साधवस्तेषां, तथा निर्ग्रन्थीनां साध्वीनां, इह पायस्तुल्यानुष्ठानत्वमुभयेषामपीति निदर्शनार्थी वा शब्दो, इमा इति वक्ष्यमाणनामतः प्रत्यक्षासन्ना उद्दिष्टाः सामान्यतोऽभिहिताः, यथा महानद्य इति गणिता यथा पश्चेति, व्यजिता व्यक्तीकृता, यथा गङ्गेत्यादि विशेषणोपादानाद्वा, यथा महार्णवा इति । तत्र महार्णवा इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता महार्णवा महानद्यो गुरुनिम्रगा अन्तर्मध्ये मासस्य द्विकृत्वो १ श्री स्थानांगसूत्र पंचमस्थानेद्वितीयोदेशके. ॥११९॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy