________________
प्रतिमा शतकम्. ॥१२०॥
स्वोपज्ञ चि
श्लो. ३७
द्वौ वा त्रित्वो वा त्रीन् वारान् उत्तरी लङ्कयितुं बाहुजङ्घादिना, सन्तरीतुं साङ्गत्येन वा नावादिनेत्यर्थः, तरीतुं लङ्घयितुं आत्मसंयमोपघातसंभबेन शबलचारित्रभावात् । यत आह- “मासन्मंतरतिनिय दगलेवाओ करेमाणेति ” उदकलेपो नाभिप्रमाण जलावतरणमिति । इह सूत्रे कल्पभाष्यगाथा - " इमाओचि मुत्तउत्ता, उद्दिद्वणईओ गणिय पंचेव । गंगादिवंजियाओ, बहूदय महण्णवाओ अ ।। पचण्डं गहणेणं, सेसाविउसूइआ महासलिलेति " । प्रत्यपायाचेह - “ ओहारमग्गराइआ घोरातत्थउसावया सरीरो वहिमाईआणावा तेणं व कत्थ इत्ति ।' भये राजप्रत्यनीकादेः सकाशात् उपध्याद्यपहारविषये सति १, दुर्भिक्षेवा भिक्षाभावे सति २, 'पन्नाज्जत्ति ' प्रव्यथते बाह्यते, अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् कचित् प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ उदओघसित्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनागच्छति सति तेन प्लाव्यमानानामित्यर्थः, महताबाटोपेनेति शेषः ४ । ‘अणायरिएमुत्ति' विभक्तिव्यत्यात् - अनार्यैम्र्लेच्छादिभिर्जीवितचारित्रापहारिभि रभिभूतानामिति शेषः ५ । एतानि तु पुष्टालम्बना नीत्युत्तरणेऽपि न दोष इति कल्प्यत्वव्यपदेशः । अकारणेऽपि यतनापदेन पुनरेवं स कल्पे व्यवस्थितः - " णो कप्पइ णिग्गंथाण वा निगंीण वा इमाओ उद्दिट्टाओ पंच महण्णवाओ महाणईओ गणियाओ वंजियाओ अंतो मासस्स दुक्खुतो वा तिक्खुतो वा उत्तरितएवा संतरिशए वा, गंगाजउणा सरउ कोसिया मही, अहपुण एवं जाणिज्जा - एरवती कुणालाए जत्थ चक्किया एगं पायं जले किया, एवं पायं थळे किच्चा, एवण्डं कप्पर अंतोमासस्स दुक्खुतो वा उत्तरितएवा संतरिशएवा " ।। अत्र हि सङ्ख्यानियमो - पोद्बलनस्य यतनया कल्प्यता, शबलता अप्रयोजकत्वमिति यावत्, परतस्त्वाज्ञा भङ्गानवस्थाभ्यां यतनयापि न तथात्वमिति ॥ १२० ॥ बोध्यं । तदेवं पुष्टाम्बनेनापवादेऽपि न त्रासौचित्यमिति स्थितं ।। ३७ ।।