________________
प्रतिमा शतकम्.
॥११६॥
वैषम्यहेतुमाशङ्कच निराकरोति—
नोत्तर मुनेर्नियमनाद्वैषम्यमिष्टं यतः पुष्टालम्बनकं न तन्नियमितं किन्नु श्रुते रागजम्। अस्मिन् सत्ववधे वदन्ति किल येऽशक्यप्रतीकारतां तैर्निन्दामि पिबामि चांभ इति हि न्यायः कृतार्थः कृतः ॥ ३६ ॥
स्वोपज्ञ वृत्तिः
श्लो. ३६
टीका- 'नो नथुत्तरण' इति मुनेः नद्युत्तरणे नियमनात् संख्यानियमाभिधानात् श्राद्धस्य पूजायां तदभावाद्वैषम्यमिष्टं इति नो-नैव वाच्यं यतः तन्नद्युत्तरणं पुष्टालंबनकं ज्ञानादिलाभकारणं न नियमितं, किन्तु श्रुते सिद्धान्ते रागजं रागपातं । इत्थमेव नखनिर्दलनप्राप्तावघातनिषेधार्थं प्रोक्षणविधेरिव रागप्राप्तनद्युत्तरणनिषेधार्थ प्रकृतस्य नियमविधित्वोपपत्तेः । द्रव्यस्तवविधिस्तु गृहिणोऽपूर्व एवेति साम्यायोगात् । पुष्टालंबनं तु वर्षास्वपि ग्रामानुग्रामविहारकरणमप्यनुज्ञातमिति कस्तत्र सङ्ख्यानियमः ?, तथा च स्थानाङ्गसूत्रे - " वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा२ गामाणुग्गामं दूइज्जित्तए, पंचहिं ठाणेहिं कप्पर, तं० - जाणहयाए, दंसणहयाए, चरिचट्टयाए, आयरियउवज्झाएवासेवी सुंभेज्जा, आयरियउवज्झायाणं वा बहिया वेयावच्चकरणयाएचि " । तत्र च मालवादावेकदिनमध्येऽपि बहुशो नद्युत्तरणं संभवतीति अशक्यपरिहारसमाधिमाश्रि त्याह-अस्मिन् नद्युचरणे सत्ववधे जलादिजीवोपमर्दे येऽशक्यमतीकारतां वदन्ति तैरंभो जलं निन्दामि पिबामि चेति न्यायः
।।। १.१६ ।।
१ लुम्पकैः