SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम्. ॥११६॥ वैषम्यहेतुमाशङ्कच निराकरोति— नोत्तर मुनेर्नियमनाद्वैषम्यमिष्टं यतः पुष्टालम्बनकं न तन्नियमितं किन्नु श्रुते रागजम्। अस्मिन् सत्ववधे वदन्ति किल येऽशक्यप्रतीकारतां तैर्निन्दामि पिबामि चांभ इति हि न्यायः कृतार्थः कृतः ॥ ३६ ॥ स्वोपज्ञ वृत्तिः श्लो. ३६ टीका- 'नो नथुत्तरण' इति मुनेः नद्युत्तरणे नियमनात् संख्यानियमाभिधानात् श्राद्धस्य पूजायां तदभावाद्वैषम्यमिष्टं इति नो-नैव वाच्यं यतः तन्नद्युत्तरणं पुष्टालंबनकं ज्ञानादिलाभकारणं न नियमितं, किन्तु श्रुते सिद्धान्ते रागजं रागपातं । इत्थमेव नखनिर्दलनप्राप्तावघातनिषेधार्थं प्रोक्षणविधेरिव रागप्राप्तनद्युत्तरणनिषेधार्थ प्रकृतस्य नियमविधित्वोपपत्तेः । द्रव्यस्तवविधिस्तु गृहिणोऽपूर्व एवेति साम्यायोगात् । पुष्टालंबनं तु वर्षास्वपि ग्रामानुग्रामविहारकरणमप्यनुज्ञातमिति कस्तत्र सङ्ख्यानियमः ?, तथा च स्थानाङ्गसूत्रे - " वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा२ गामाणुग्गामं दूइज्जित्तए, पंचहिं ठाणेहिं कप्पर, तं० - जाणहयाए, दंसणहयाए, चरिचट्टयाए, आयरियउवज्झाएवासेवी सुंभेज्जा, आयरियउवज्झायाणं वा बहिया वेयावच्चकरणयाएचि " । तत्र च मालवादावेकदिनमध्येऽपि बहुशो नद्युत्तरणं संभवतीति अशक्यपरिहारसमाधिमाश्रि त्याह-अस्मिन् नद्युचरणे सत्ववधे जलादिजीवोपमर्दे येऽशक्यमतीकारतां वदन्ति तैरंभो जलं निन्दामि पिबामि चेति न्यायः ।।। १.१६ ।। १ लुम्पकैः
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy