SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ खोपत्र वृत्ति . प्रतिमा || दयो देवतान्यवहारप्रयोजकः, तीर्थकरनामकर्मोदयश्च देवाधिदेवव्यवहारमयोजक उपासनाफलप्रयोजकश्च मन्त्रमयदेवतानयश्च शतकम् ॥ समभिरूढनयभेदस्तदुपजीव्युपचारो वा, यमादाय संयतानामपि देवतानमस्कारौचित्यमित्ययं संप्रदायाविरुद्धोऽस्माकं मनीषोन्मे॥११५ | पस्तत्सिमेतद्वीतरागोदेशेन द्रव्यस्तवोऽपि भावयज्ञ एवेति ॥ ३४ ॥ भावापदिनिवारणगुणेन कृतां स्थापनामेव द्रढयतिसम्यग्दृष्टिरयोगतो भगवतां सर्वत्र भावापदं भेत्तुं तद्भवने तदर्चनविधिं कुर्वन्न दुष्टो भवेत् । वाहिन्युत्तरणोधतो मुनिरिव द्रव्यापदं निस्तरन् वैषम्यं किमिहेति हेतुविकलः शून्यं परं पश्यतु ॥३५॥ टीका-'सम्यग्दृष्टिः' इति-सम्यग्दष्टिः भगवतां तीर्थकृतामयोगतो विरहात सर्वत्र स्थाने भावापदं भेत्तुं तद्भवने भगवदायतने च तदर्चनविधि विहितां भगवत्पूजां कुर्वन दुष्टो न दोषवान् भवेत् , क इव ?, द्रव्यापदं अन्यतो विहारायोगरूपां निस्तरन् निस्तरणकामः वाहिन्या नद्या उत्तरणे उद्यतः कृतोद्यमो मुनिरिव, इह उक्त स्थानयोः किं वैषम्यं !, अल्पव्ययबहुलाभयोराज्ञायोगस्य तत्तदधिकाौचित्यस्य च तुल्यत्वात् , एकत्र नित्यत्वं कारणनित्यत्वात् , अन्यत्र नैमित्तिकत्वं च निमित्तमात्रापेक्षणादित्यस्योपपत्तेरिति इतिपर्यनुयोगे हेतुविकलः प्रत्युत्तरदानाऽसमर्थः परं केवलं शून्यं पश्यतु दिग्मूढस्तिष्ठत्वित्यर्थः।। ३५॥ १ प्रतिमारिः लुम्पकः ॥११५॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy