SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम्. ॥ ११४॥ जकत्वात्, तन्निष्ठकिञ्चिज्जननाय क्रियमाणत्वस्यापाघित्वाच्च, नहि हविस्त्यागो देवतानिष्ठकिञ्चिदुद्देशेन क्रियते, किन्तु स्वनिफलोद्देशेन । शिवाय गां दद्यादित्यादौ तुद्देश्यत्वे भाक्ता चतुर्थी । ददातिस्त्यागमात्रपर इति नानुपपत्तिरित्याह, तदसत्, चतुर्थ्यन्तपदस्य देवतात्वे भानाभावात्, चतुर्थी विनापीन्द्रो देवतेति व्यवहारात्, अग्नये कव्यवाहायेत्यादौ देवताद्वयप्रसङ्गात् इन्द्रः सहस्राक्ष इत्यर्थवादस्य इन्द्रमुपासीतेति विधिशेषतया स्वर्गार्थिवादवत् मामाण्यात्, इन्द्रायेत्यादौ श्रुतपदनैव त्यागस्य फलहेतुताया वचनसिद्धत्वात्, “ तिर्यक् पंगुवित्र्यार्षेयदेवतानामधिकार " इति जैमिनीयमूत्रस्यैव देवताचैतन्यसाधकत्वाच्च, अचैन्येऽधिकाराप्रसक्त्या तन्निषेधानौचित्यात् । सूत्रार्थचैवं ' तिरथां' विशिष्टान्तः संज्ञाविरहात् ' पङ्गोः ' प्रचरणाभावात् 'तिस्रो'दृष्टिश्रुतिवाच, 'आर्षेया' ऋत्विग्योग्या विमुख्यो येषामन्धबधिरमूकानां दर्शनश्रवणोच्चारणासमर्थानां वित्र्यार्षेयाणामिति त्रिप्रवराणामेवाधिकारो, नत्वेकद्विचतुःप्रवरादीनां देवतानाम्, अनधिकारश्चाभेदेन संप्रदानत्वायोगात्, एतेन देशना देशितचतुर्थ्यन्तपदनिर्देश्यत्वस्य तादृशपदबोध्यत्वरूपस्येन्द्रादि पदे ऽसंभवात्तादृशपदविशिष्ट इन्द्रादिश्चेतन एव देवताविशेषणस्येन्द्रादिपदस्येन्द्रादे चेतन एव, देवताविशेषणस्येन्द्रादिपदस्याचेतनत्वाद्देवताया अचैतन्यव्यवहार इति मिश्रोक्तमीमांसकमतमप्यपास्तं, विशेषस्यैव देवतात्वसंभवे विशेषणदेवतात्वे मानाभावात्, तत्तद्वीजाक्षराणामानन्त्येन तेषां चतुर्थ्यन्तत्वाभावेन च देवतात्वायोगात् । न च तवापि देवताशरीराणामानन्त्यं, बाल्यादिना भिन्नशरीरेषु चैत्रत्वादिवदिति वाच्यं देवताचैतन्यसिद्धौ देवतात्वेन्द्रत्व चन्द्रत्वजातेरदृष्टविशेषोपगृहीतत्वस्य चानुगतत्वात्, ईश्वरे च देवतात्वे मानाभावात्, ईशानादेः कर्मफलभोक्तुर्जीवभूतस्यैव देवतात्वात् । "ईश्व रीयाहुतिश्रुतेरपीशानपरत्वाकायाहुतिश्रुतिरपि तदधिष्ठातृदेवपरा" इति न्यायामालायां । अदृष्टविशेषोपग्रहो देवगतिनामकर्मो - ॥११४॥ स्वोपज्ञ वृत्तिः श्लो. ३४
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy