SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रतिमा | नमःपदस्यापि तत्वश्रवणात् । तदुक्तं-'मन्न्यासस्तु तथा मणवनमःपूर्वकं च तमाम। मन्त्र:परमो शेयो मननत्राणे ह्यतो नियमात स्वोपन शतकम् इति । मीमांसकस्तु,-इन्द्रविश्वेतनस्य सतोऽपि न देवतावं, तद्धि देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वं, ब्राह्मणाय दद्यादित्यादौ ब्राह्म- दृचिः ॥११॥ " णवेददेवतात्ववारणाय देशना देशितेति । देशना वेदस्तेन यत्र योगे इविषि वा चतुर्थ्यन्तपदनिर्देश्यतया यो बोधितः स तत्र हाला देवता, 'ऐन्द्रं दधिभवति' इत्यादौ देवतातद्धितविधानादिन्द्रोऽस्य देवतेत्यर्थो, देवनात्वमत्र चतुर्थ्यन्तपदनिर्देश्यत्वमेवेति नान्योन्याश्रयः । इन्द्राय स्वाहेत्यादौ चतुर्थ्या देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वमर्थः, इन्द्रपदं स्वपरं तादृशनिर्देश्यत्ववदिन्द्रपदकत्याग इति वाक्यार्थः, अत एव ब्रामणाय स्वाहेत्यादिर्न प्रयोगः, स्वाहादिपदयोगे देवताचतुर्था एव साधुत्वेन ब्राह्मणादेनिरुक्तदेवतात्वाभावात् । तत्र हि संप्रदानत्वबोधकचतुर्थेवात एव पृथक् सूत्रप्रणयनमपि आकाशाय स्वाहेत्यादौ संप्रदानचतुर्थ्यभावेऽपि 'नमःस्वास्ति' इत्याद्युपपदचतुर्थीसंभवो, मन्त्रलिङ्गादिना च यत्र देवतात्वावगमस्तत्र ततस्तथा श्रुत्युभयनाद्देशनादेशितत्वं, इत्यमेवेन्द्राय स्वाहत्येव प्रयोगो, नतु शक्राय स्वाहेति पर्यायान्तरेणापीत्यचेतनैव देवता । यदग्नये प्रजापतये चेत्यादौ देवताद्वयकल्पने गौरवाद्वाक्यभेदप्रसङ्गाच्चकारबलाच्च विशिष्टस्यैव देवतात्वं, अग्निप्रजापतिभ्यां स्वाहैत्येव प्रयोगः। धृतिहोमे धृतित्वादेर्देवतात्वरक्षायै चतुर्थ्यन्ततेति चतुर्थ्यन्ततेत्यर्थक, धृतिः स्वाहेत्यादौ प्रथमाया एव चतुर्थ्यर्थविधानात् । अय देवतोद्देशेन इविस्त्यागो, देवतानिष्ठकिश्चिज्जनकः तत्स्वरूपाजनकत्वे सति तदुद्देशेन क्रियमाणत्वाद, ब्राह्मणोद्देश्यकत्यागवत् । धृतोदेशेन क्रियमाणे दध्नि व्यभिचारवारणाय सत्यन्तं तच्च परिशेषात् । स्वामित्वादीति सिद्ध देवताचैतन्यमिति चेन्ना प्रयो ॥११ १ 'ब्राह्मणादेर्देवतात्ववारणाय' इत्यपि कचित् । १ रूट्युन्नयनाद् . इत्यपि .
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy