________________
प्रतिमा
॥११॥
श्लो.३४
आत्मोद्देशेनैव देवतात्वं वीतरागत्वमिति समापच्या तस्य स्वात्मन्युभयनात् । योगास्तु देवतात्वं मन्त्रकरणकहविर्निष्ठफळमा- स्वोपड़ शतकम् । गित्वेनोद्देश्यत्वं, अतश्चतुर्थी विनापीन्द्रादेदेवतात्वं हविर्निष्ठफलं स्वत्वं, अतो न त्यागजन्यस्वर्गरूपफलाश्रयकर्त्तयतिव्याप्तिः ।
न च मन्त्रं विनेन्द्राय स्वाहेत्यनेन त्यागे देवतात्वं न स्यादिति वाच्यं, मन्त्रकरणकत्यागान्तरमादाय देवतात्वात् , स्वाहा स्वधान्यतरस्यैव प्रकृते मन्त्रत्वाच्च । पित्रादीनां स्वधया त्यागे देवतात्वं न तु प्रेतस्य, नमःपदेनैव तदा त्यागात् , शूद्रादिपितुर्देवतात्वं च ब्राह्मणपठितमन्त्रात्, ब्राह्मणाय स्वाहेत्यनेन ब्राह्मणाय त्यागेऽपि स्वाहेत्यस्य न ब्राह्मणस्वत्वहेतुत्वं, तद्विनापि प्रतिग्रहमात्रादेव तत्सत्वसंभवात् , अदृष्टजनकत्वेन वा त्यागो विशेषणीयः, स्वाहेत्यनेन ब्राह्मणाय त्यागो नादृष्टहेतुः, पामरण मन्त्रं विनापीश्वराय त्यागे ईश्वरस्य देवतात्वं मन्त्रकरणकत्यागान्तरमादाय उद्देश्यत्वं उद्देश्यतावच्छेदकावच्छिन्नोपलक्षक केवलपत्त्या [ल्या] देवतात्ववारणमविशिष्टत्वेनोद्देश्यत्वाद्विशिष्टस्यैव देवतात्वात् इत्याहुस्तद्वाळचापलमात्र। योगिनामुपा. सनीयाया वीतरागदेवताया एव प्रसिद्धरहङ्कारममकारात्मकस्वत्वस्य तनिरूपितस्य कुतोऽपि कचिदप्याधानासंभवाद, सरागेश्वरदेवतायाश्च रागविहंबितैरेवाभ्युपगन्तुमर्हत्वाद्वीतरागोद्देशेन कृतासमन्त्रात्कर्मणोऽध्यवसायानुरोधिफलाभ्युपगमे तु मन्त्र करणकोपासनेति कर्त्तव्यतालम्बनत्वमेव देवतात्वमिति युक्तं । संसारिदेवत्वं च देवगतिनामकर्मोदयवचं, संसारिषु संसारगामिनाम् इतरेषु चेतरेषां भक्तिः स्वरससिद्धेति योगतन्त्रप्रसिद्ध । तदुक्तं योगदृष्टिसमुच्चये-" संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनः तत्वे तदतीतार्थयायिनाम् "॥ इति । स्वाहास्वधान्तरस्यैव मन्त्रत्वमित्ययमपि नैकान्तो, मन्त्रन्यासे
१ " दैववारणाय विशिष्टत्वेन" इत्यपि कचित् पुस्तके तत्संदिग्धम् । २ श्लो० १०९.
wwwwwwwwwwwww
॥११२॥