________________
पतिमा शतकम् ॥१०७||
वृत्तिः
न कर्मबन्धस्तथान्यत्रापि तादृशःप्राणिवधे सत्यपि इति । एतषणायाह-“ मणसा जे पउस्संति चित्तं तेसिं ण विजइ । अ-|| णवजं अतहं तेसिं ण ते संवुढचारिणोत्ति ॥" ये कुतश्चित्कारणान्मनसा अन्तःकरणेन प्रादुष्यन्ति प्रद्वेषमुपयान्ति तेषां वधप
स्वोपक्ष रिणतानां शुद्धं चित्रं न विद्यते, ततश्च केवलमनामदेषे यत्तैरनवद्यमभिहितं तत्तेषामतथ्यं यतो न ते संवृतचारिणो मनसोऽशु- श्लो..
खात् । तथाहि, कर्मोपचये मन एवं प्रधानकारणं तैरभिहितं, केवलकायव्यापारेण कर्मोपचयाभावोक्तेः, कायचेष्टारहितस्य तस्याकारणत्वोक्तिश्च भावविशुध्या निर्वाणमभिगच्छतीति स्ववचनैव विरुद्धा, तत्र मनस एवैकस्य प्राधान्ये तात्पर्यात । अन्यत्राप्युक्तं-" चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते "॥ ततो भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेति । ईर्यापथेऽप्युपयुक्तस्याप्रमत्तत्वादबन्धकत्वमनुपयुक्तस्य तु क्लिष्टचित्ततया बन्धकत्वमेव, स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादषिबाधा भवत्येव, सा चाव्यक्तसावधोक्ता त्वयाप्यभ्युपगता, तदेवमेकस्यापि क्लिष्टस्य मनसो । भावे बन्धसद्भावात् यदुक्तं-'पाणी'त्यादि, तत्सर्वप्लवते । यदप्युक्तं-'पुत्रं पिता समारभ्ये त्यादि, तदप्यनालोचिताभिधानं । मारयामीत्येवमध्यवसायं विना व्यापादनाऽसंभवात्तादृशचित्तपरिणतेश्च कथमसक्लिष्टता ?, संक्लेशे चावश्यंभावी कर्मवन्ध इत्युभयसंमतमेव । यदपि परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन्न दोष इति, तदप्युन्मत्तमलपितवदनाकर्णनीयं, परव्यापदितपिशितभ क्षणेऽप्यनुमतेरप्रतिहतत्वात्। यच कृतकारितानुमतिरूपमादानत्रयं तैराभिहितं तज्जिनेन्द्रमतलवास्वादनमेव तैरकारि इति । अथ तथापि पुत्रं पितेत्यायुक्तदिशा द्रव्यस्तवे पुष्पादिजीवोपमर्ददोपाभावाभिधाने परमतप्रवेशस्तदवस्थ एव मारणाध्यवसायं विनाच्यापादनेन १ गा०२९
B॥१७॥
।