________________
प्रतिमा
शतकम्. ॥१०८॥
दोषो केरुत्तरस्योभयत्र तुल्यत्वादिति । लोचानशनादेरेवाधिकारिणो यतना शुद्धभावेन संक्लेशरूपापनयने परिकर्मितवत्सनागादेखि ततो बलवदोषाभावात् स्वरूपतः सावद्यत्वाच्च यतेस्तत्र नाधिकार इति । ततः शुभयोगे द्रव्यस्तवे नारंभिकी क्रियाभिधेया, अभिधेया चेच्छुभैव, हिंसा च यतनया तदधिकनिवृत्तिभावान भवति, तदाह - " यतनातो न च हिंसा यस्मादेषैव तन्निवृत्तिफला । तदधिकनिवृत्तिभावाद्विहितमेता दुष्टमेतदिति " ॥ मूल एवं विस्तरेणाभिधास्यते चेदमुपरिष्टादित्यलं प्रसङ्गेन । " इमं प्रोक्तं युक्तं य इह समयाद्वाचकवरैः क्रिया या निष्कर्षं कलयति कृती शान्तमनसा । यशः श्रीस्तस्योच्चैस्त्यैजति सविधं नैव गुणिनो गुणानां वाल्लभ्यात्परमरसिकेव प्रणयिनी ॥१॥” ॥३०॥
द्रव्यस्तवे गुणानुपदर्शयतिवैतृष्ण्यादपरिग्रहस्य दृढता दानेन धर्मोन्नतिः सद्धर्मव्यवसायतश्च मलिनारंभानुबन्धच्छिदा । चैत्यानत्युपनम्रसाधुवचसामाकर्णनात्कर्णयो रक्ष्णोश्चामृतमज्जनं जिनमुखज्योत्स्ना समालोकनात्
खोपन वृत्ति.
लो. ३०
-३१
॥ ३१ ॥
टीका- 'वैतृष्ण्याद्' इति ( धनादि ) - तृष्णाविच्छेदादपरिग्रहस्यापरिग्रहव्रतस्य दृढता भवति । तथा दानेन कृत्वा धर्मोनतिर्भवति । विहितं च तज्जिनभवन कारणे पूर्वाङ्ग - " अत्रासन्नोऽपि जनोऽसंबन्ध्यपि दानमानसत्कारैः । कुशलाशयवान्
॥ १०८ ॥