SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम् wwmwww ॥१४॥ श्लो.३० तं शरीरपरिणाम तेऽपि धृतघट हात करोति, ततः पूर्व पारितापनिकी नाम खड्गादिधातेन पीडाकरणं । पञ्चक्रियता पञ्चम्याः संयोगे, साचप्राणातिपातक्रिया, जीविताव्यपरोपणमिति। स्वोपन है वृत्तिः सत्यं, योगप्रद्वेषसाम्येनाप्युपादानसामग्र्या एव संभृतत्व प्रतिपादनाद्वाह्यसंपत्तरप्याकिञ्चित्करत्वात्। यच्चाव्युत्सृष्टमाग्भवशरीरेण क्रियाभिधानं तदविरतिनिमित्तादुपचारमात्रं न बाह्यप्राधान्याक्षेपात्तदुक्तं । ननु नारकस्य द्वीन्द्रियानधिकृत्य कथं कायिक्यादिक्रियासंभवः, उच्यते, इह नारकेण यस्मात्पूर्वभवशरीरं नव्युत्सृष्टं विवेकाभावात् , तद्भावश्च भवप्रत्ययात् , ततो यावत्तच्छरीरं तेन जीवेन निर्वर्तितं सत् तं शरीरपरिणाम सर्वथान परित्यजति, तावद्देशतोऽपि तं परिणाम भजमानं पूर्वभावप्रज्ञापनया तस्येति व्यपदिश्यते घृतघटवत् । यथा घृतपूर्णो घटो घृतेऽपगतेऽपि घृतघट इति व्यपदिश्यते, तथा तदपि शरीरं तेन निवर्तितमिति तस्येति व्यपदेशमईति, ततस्तस्य शरीरस्यैकदेशेनास्थ्यादिना योऽन्यः प्राणातिपातं करोति, ततः पूर्वनिर्तितशरीरजीवोऽपि कायिक्यादिक्रियाभियुज्यते, तेन तस्या व्युत्सृष्टत्वात् । तत्रेयं पश्चानामधिक्रियाणां भावना-तत्कायस्य व्याप्रियमाणत्वात्कायिकी, कायोऽधिकरणमपि भवतीत्युक्तं प्राक् , तत आधिकरणिकी । प्रादेषिक्यादयस्त्वेवं-यदा तमेव शरीरैकदेशं अभिघातादिसमर्थमन्यः कश्चनापि प्राणातिपातोद्यतो दृष्ट्वा तस्मिन् घात्ये द्वीन्द्रियाद्रौ समुत्पन्नक्रोधादिकारणोऽभिघातादिसमर्थ शस्त्रमिदमिदमिति चिन्तयन् अतीवक्रोधादिपरिणाम भजते पीडां चोत्पादयति जीविताच व्यपरोपयति तदा तत्संबन्धिप्रादेषिक्यादिक्रियाकारणत्वाभैगमनयाभिप्रायेण तस्यापि प्रादेषिकी पारितापनिकी प्राणातिपातक्रिया चेति । अत एव विरतिमान् जीवो जीवादैहिकामुष्मिकक्रियाभावेऽकियोऽप्युक्तः, किश्च प्रतिनियताः कायिक्यादय एवायोजनीयत्वेनोक्ता इति । देवपूजादिक्रिया संसारविच्छेदिके. ॥१४॥ १ प्रज्ञापनाया २२ क्रियापदवृत्तौ. wwwarewan
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy