SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Marriamam स्वोपड़ वृत्तिः श्लो.३० चरमसमय एवोत्पद्यमानं तदैव चोत्पन्नमित्यस्यार्थस्य महता प्रबन्धन महाभाष्ये व्यवस्थापितत्वात् , आत्मैव हिंसेति तु प्रतिमा । यद्यपि शब्दनयानां मतं, नैगमनयमते जीवाजीवयोः सा, सहव्यवहारयोः षड्जीवनिकायेषु, ऋजुसूत्रस्य शतकम् प्रतिस्वं स्वधात्येतद्भदेन, तन्मते हिंसाभेदाच्छब्दनयानां स्वात्मनीत्यौघवृत्तौ विवेचनात्, तथापि विषयविभागेन ॥१०॥ नयप्रदर्शनं तत्, इह तु हिंसास्वरुपविवेचने नयविभागः तत्र च संक्लेशदुःखोत्पादनतत्पर्यायविनाशभेदेन त्रिविधापि हिंसा नैगमव्यवहारयोः, संक्लेशदुःखोत्पादनरूपा द्विविधा सङ्ग्रहस्य, संक्लेशरूपैव च सूत्रस्य संमतेत्येवं व्यवस्थितेः, संक्लेशश्चात्मपरिणाम आत्मैवेत्येतन्मते आत्मैच हिंसेत्युक्तौ दोषाभावाच्छब्दनयानामप्येतदेव मतं । " मूल निमाणं पज्जवणयस्स उज्जुसुअवयणवि. च्छेदो । तस्सउ सद्दाईआ साह पसाहा बहु विगप्पा ॥" इति संमतिग्रन्थेनतेषामृजुसूत्रविस्तारात्मकत्व[व्यवस्थितेः, विशेषिततर तदर्थकत्वस्यैव नियुक्तावभिधानाच । प्राणातिपातनिवृत्तिस्वभावसमवस्थितात्मद्रव्यान्यथाभाव ऋजुसूत्रमते, हिंसातद्गुणान्यथाभावश्च शब्दनयमत इति तु विवेचकाः । ननु यद्येवमध्यवसायानुरोधिन्येव क्रिया तदा कथं----" जीवेणं भंते ! नाणावरणिज कम्मं बंधमाणे कइ किरिए ?, मो०! सिय तिकिरिए सिय चकिरिए सिय पंचकिरिए" इत्यादिना बन्धविशेषानुकूल हिंसासमा त्यभिधानं योगमद्वेषसाम्येन यद्विवेचकास्तिमृमिश्चतसृमिरथ पञ्चभिश्च हिंसा समाप्यते क्रमशः स्यात् , योगपद्वेषसाम्यं चेदिति तत्र त्रिक्रियता कायिक्यधिकरणिकीमाषिकीभिः, कायिकी नाम हस्तादिव्यापारणं, अधिकरणिकी खगादिषुमगुणीकरणं, प्रादेषिकी मारयाम्येनमित्यशुभमनः संप्रधारणं । चतुःक्रियता कायिक्याधिकरणिकीपाद्वोषिकीपारितापनिकीभिः, १ प्रज्ञापनाया द्वाविंशतितमे(क्रिया)पदे. wwwwwwwwwww ॥१०॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy