SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम् ॥९८॥ wwwwwwwwwwwwww भवति, तस्य च न भवति, शेषस्याविरतसम्यग्दृष्टयादेर्भवति इति भावः । यस्य पुनरप्रत्याख्यानक्रिया तस्यारंभिकी क्रिया नोक नियमात् , अप्रत्याख्यानिनोऽवश्यमारंभसंभवात् । एवं मिध्यादर्शनप्रत्ययापि सहाविनाभावो भावनीयः, तथाहि-यस्यारंभिकी। दृचिः क्रिया तस्य मिथ्यादर्शनमत्यया स्याद्भवति स्यानभवति, मिथ्यादृष्टर्भवति शेषस्य तु न भवतीत्यर्थः, । यस्य तु मिथ्यादर्शन श्लो.३० क्रिया तस्य नियमादारंभिकी, मिथ्यादृष्टरविरतत्वेनावश्यमारभसंभवात् । तदेवमारंभिकी क्रिया परिग्राहिक्यादिभिश्चतसृभिरुपरितनीभिः क्रियाभिः सह परस्परमविनाभावेन चिन्तिता, एवं पारिग्रहिकी तिसृभिर्मायाप्रत्यया द्वाभ्यां अप्रत्याख्यानक्रिया एकया मिथ्यादर्शनप्रत्यया चिन्तयीया । तथा चाह-" एवं पारिग्गहिआवि तिहि उवरिल्लाहि समं संचारेअव्वा" इत्यादि सुगम, भावनीयाः सुप्रतीतत्वात् । अमुमेवार्थ दण्डकक्रमेण चिन्तयति-" नेरइअस्स आइल्लाओ चत्वारि " इत्यादि । नैरैयिकी युत्कर्षतोऽप्यविरतसम्यग्दृष्टिगुणस्थानकं यावन्न परतः, ततो नैरयिकाणामाद्याश्चतस्त्रः क्रियाः परस्परमविनाभाविन्यः मिथ्यादर्शनक्रिया प्रति स्याद्वादा, तमेवाह-" जस्स एयाओ चत्तारि" इत्यादि, मिथ्यादृष्टेमिथ्यादर्शनक्रिया भवति, शेषस्य न भवति इति भावः । यस्य पुनः मिथ्यादर्शनक्रिया तस्याद्याश्चतस्रो नियमात् , मिथ्यादर्शने सत्यारंभिक्यादीनामवश्यंभावात् । एवं तावद्वक्तव्यं यावत्स्तनितकुमारस्य पृथिव्यादीनां चतुरिन्द्रियपर्यवसानानां पञ्च क्रियाः परस्परमविनाभाविन्यो वक्तव्याः। पृथिव्यादीनां मिथ्यादर्शनक्रियाया अप्यवश्यंभावात् । तिर्यक्पञ्चेन्द्रियस्याद्यास्तिस्र[एव] परस्परमविनाभूता देशविरतिं यावदासामवश्यंभावात्, उत्तराभ्यां तु द्वाभ्यां स्याद्वादा, तमेव दर्शयति-" जस्स एयाओ कजंति" इत्यादि, देशविरतस्य न भवतः, १ नैरयिका इत्यपि कचित्. wwwmarama
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy