________________
wwwwwwwwwww
शेषस्य भवत इति भावः । यस्यपुनरुपरितन्यौ द्वे क्रिये तस्याद्यास्तिस्रो नियमाद्भवन्ति, उपरितन्यौ हि क्रिये अप्रत्याख्यानपतिमा
स्वोपन्न यतकम्
क्रिया मिथ्यादर्शनमत्यया च, तत्राप्रत्याख्यानक्रियाऽविरतसम्यग्दृष्टिं यावत् , मिथ्यादर्शनक्रिया मिथ्यादृष्टेराद्याश्वतखो देश- तिः ॥२९॥३॥ विरतिं यावत् , अत उपरितन्योर्भावेऽवश्यमाद्यानां तिमृणां भावः । [संपति] अप्रत्याख्यानक्रियाया मिथ्यादर्शनक्रियायास्तिर्यक्-श्लो.३०
पञ्चेन्द्रियस्य परस्परमविनाभावं चिन्तयति-" जस्स अपच्चरकाणकिरिया” इत्यादि भावितं, मनुष्ये यथा जीवपदे तथा वक्तव्यं । व्यन्तरज्योतिष्कवैमानिकानां यथा नैरयिकस्य, एवमेष एको दण्डः । एवमेव 'जं समयं णं भंते' इत्यादिको द्वितीयः । 'जं देसं णं' इत्यादिकस्तृतीयः 'जं पएसणं' इत्यादिकश्चतुर्थः । “पाणाइवायविरयस्सणंभंते " इत्यादि, आरंभिकी क्रिया स्याद्भवति, प्रमत्तसंयतस्य भवति शेषस्य न भवतीति भावः । पारिग्रहिकी निषेध्या सर्वथा परिग्रहानिवृत्तत्वात् , अन्यथा सम्यक् प्राणातिपातविरत्यनुपपत्तेः । मायाप्रत्यया स्याद्भवति स्यान्न भवति, अप्रमत्तस्यापि हि कदाचित्प्रवचनमालिन्यरक्षणार्थ भवाति, शेषकालं तु न भवति । अप्रत्याख्यानक्रिया मिथ्यादर्शनप्रत्यया च सर्वथा निषिध्यते तदभावे पाणातिपातविरत्ययोगात् । प्राणातिपातविरतेश्च द्वे पदे, तद्यथा,जीवो मनुष्यश्चतत्रयथा सामन्यतो जीवमधिकृत्योक्तं तथा मनुष्यमधिकृत्य वक्तव्यं । तथा चाह--"एवं पाणाइवा. यविरयस्स मणूस्सवि" एवं तावद्वाच्यं यावन्मायामृषाविरतस्य जीवस्य मनुष्यस्य च। मिथ्यादर्शनशल्यविरतिमधिकृत्य सूत्रं-"मिच्छादंसणसल्लविरयस्सणं भंते ? जीवस्स” इत्यादि। आरंभिकी स्याद्भवति स्यानभवति प्रमतसंयस्य भवति, शेषस्य न भवतीति भावार्थः। पारिग्रहिकी देशविरतिं यावद्भवति परतोन भवति ।मायाप्रत्ययाप्यनिवृत्तिवादरसंपरायं यावद्भाविनी परतोन भवति। अप्रत्याख्यानक्रियाप्यनिवृत्तिसम्यग्दृष्टिं यावन्न परतः। तत एता अपि क्रिया अधिकृत्य-"सिय कज्जइ सिय नोकज्जई" इति वक्तव्यं । तथा