________________
wwwwwwwww
वृत्तिः श्या.२८
पतिमा | दुग्धं सर्पिरपेक्षते नतु तृणं साक्षाद्यथोत्पत्तये द्रव्यार्चानुमतिप्रभृत्यपि तथा भावस्तवो नत्विमाम् । शतकम् | इत्येवं शुचि शास्त्रतत्वमविदन् यत्किश्चिदापादयन् किं मत्तोऽसि पिशाचकी किमथवा किं 11८७॥
वातकी पातकी ॥२८॥ टीका-दुग्धम् 'इति-सर्पिघृतं यथोत्पत्तये दुग्धं क्षीरमपेक्षते, क्षीरादेवाव्यवधानेन सर्पिष उत्पद्यमानस्योपलम्भनात् , न तु तृणं, गवाभ्यवहारेण तथा परिणस्यमानमपि व्यवधानात् , तथा भावस्तव उपचितावयविस्थानीयो द्रव्यार्चानुमतिप्रभृत्यपि स्वावयवभूतं कारणमुत्पत्तयेऽपेक्षते । नस्विमांद्रव्यार्चा व्यवधानात्, अत एव द्रव्याग्निकारिकाव्युदासेन भावाग्निकारिकैवानुज्ञाता साधनाम् । तथा च तदष्टकं हारिभद्रं-" कर्मेन्धनं समाश्रित्य दृढा सद्भावनाहुतिः । धर्मध्यानाग्निना कार्या दीक्षितेनाग्निकारिका ॥१॥" कर्मेन्धनं समाश्रित्याग्निकारिका कार्येति योगः, अग्निकारिका अग्निकर्म दृढा कर्मेन्धनदाहपत्यला सद्भावनैवआहुतिः घृतप्रक्षेपलक्षणा यस्यां, धर्मध्यानं शुक्लध्यानस्योपलक्षणं । परासद्धान्तेनाप्येतत्साधयति-" दीक्षा मोक्षार्थमाख्याता ज्ञानध्यानफलं स च । शास्त्र उक्तो यतः सूत्रं शिवधर्मोत्तरे ह्यदः ॥ २॥" शिवधर्मोत्तरं तन्नाम । तदेव सूत्रं दर्शयति" पूजया विपुलं राज्यमग्निकार्येण संपदः । तपः पापविशुद्ध्यर्थं ज्ञानं ध्यानं च मुक्तिदम् ॥ ३ ॥" पराभ्युपगमेनैवाग्निकारिको दूषयित्वा फलतो दूषयति-"पापं च राज्यसंपत्सु संभवत्यनघं ततः। न तद्धत्वोरुपादानमिति सम्यग
१ अग्निकारिकानामक चतुर्थाष्टकम् ।
Minwww