SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रतिमा || हेतोः साधनाम दिकं किं न कर्त्तव्यं ? यद्यनुमोचं स्यात्कव्यं स्यात् , न च कर्त्तव्यमस्ति, अतो नानुमोद्यमिति विपर्ययप स्वोपज्ञ शतकम् र्यवसानं, तथा चैततर्कसहकृतान्मिश्रत्वादिहेतोरननुमोद्यत्वसिद्धिरित्यर्थः । अत्रोत्तरं, सत्यं, यत्त्वयाऽऽपाततः प्रसञ्जनं कृतं, ॥८६॥ परं केवलस्य साहचर्यस्य कलनात् पुरस्करणादनुमानप्रथा प्रसङ्गापादननिष्ठा नेष्टा । न हि साहचर्यमानं व्याप्तिः, पार्थिव- श्लो.२७ त्वलोहलेख्यत्वयोरपि तत्पसङ्गात् , तथा च, तर्कमूलव्याप्त्यसिद्धेर्मूलशैथिल्यदोष इत्यर्थः। यदयदनुमोघं तत्चत्कर्तव्यमित्यत्र निय-।। तसाहचर्याद् व्याप्तिरस्त्येवेत्यत्राह,-व्याप्तिः कापि गता-दूरे नष्टा, कस्मात् ? स्वरूपनिरयाचारात् स्वरूपनिरवद्याचारादुपाधेः, यत्र साधुकर्चव्यत्वं तत्र स्वरूपतो निरवद्यत्वं, यत्र च तदनुमोधत्वं तत्र स्वरूपतो निरवद्यत्वमिति नास्ति कारणविहिताना वर्षाविहारादीनां, नद्युत्तारादीनां, संयत्यवलम्बनादीनां चानुमोद्यत्वेऽपि स्वरूपनिरवद्यत्वात्, तथा चानौपाधिकसहचाररूपव्याप्त्यभावान्मूलशैथिल्यं वज्रलेप इति भावः । एवं च शुष्कपाठवलीवईस्य तर्के मुखं प्रविशत उपहासमाह,-तत्तस्मात्कारणात् हेवाल! अविवेकिन् ! तव तर्के रतिः वृथाअन्तरङ्गशक्त्यभावात् , कस्य कुत्र इव ? क्लीबस्य वधूनिधुवन इव कान्तारतसंमई इव, न च विद्यामुखचुम्बनमात्रात्तद्भोगसौभाग्यमाविर्भवति । यत् सूक्तं,-"वेश्यानामिव विद्यानां मुखं कैः कै नै चुम्बितम् । हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति च" ॥१॥ किञ्च अचेलकादीनां एकचेलाद्याचारस्यानुमोद्यत्वेऽपि तदकर्तव्यत्वात् सूत्रनीत्या व्यक्त एव दोषः, यदाप-"जो विदुवच्छतिवत्थो एगेण अचेलगोच संथरइ । ण हु ते हीलंति परं सव्वेविअते जिणाणाए"त्ति ॥ २७॥ ननु यदि द्रव्यस्तवानुमतिर्भावस्तवोपचयायापेक्ष्यते तदा द्रव्याचैव कथं नापेक्ष्यते ? तत्राह
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy