________________
प्रतिमा
शतकम्. ॥ ८३ ॥
रोज्वलनमनुज्ञातमित्युपपादयितुं शक्यते । द्रव्यस्तव एव परमाणापहारानुकूलव्यापारत्वाद्धिंसेति चेत्तथापि द्रव्यस्तवत्वं न हिंसात्वमिति न क्षतिः, वस्तुतो विहारादावतिव्याप्तिवारणाय प्रमादप्रयुक्तप्राणव्यपरोपणत्वं हिंसात्वं वाच्यं तच्च न प्रकृत इति न दोषः, एवं सति 'सविशेषणा' इत्यादिन्यायात् प्रमादाप्रमादयोरेव हिंसाहिंसारूपत्वे प्रमादत्वाप्रमादत्वाभ्यां एव बन्धमोक्षहेतुत्वे विशेष्यभागानुपादानं स्यादिति चेत्सत्यं, प्रमादयोगात्प्राणव्यपरोपणं हिंसा, अममादयोगात्प्राणान्यपरोपणमहिंसेति लक्षणयोर्व्यवहारार्थमेवाचार्यैरनुशासनाद्बन्धमोक्षहेतुताया निश्चयतः प्रमादत्वाप्रमादत्वाभ्यामेव व्यवस्थितेः, बाह्य हेतूत्कर्षादपि फलोत्कर्षाभिमानिना व्यवहारनयेन तु विशेष्यभागोप्याद्रियत इति सर्वमवदातं नयज्ञानां ॥ २४ ॥
अनुपदेश्यत्वादननुमोद्यत्वं द्रव्यस्तवस्येत्यत्राह—
मिश्रस्यानुपदेश्यता यदि तदा श्राद्धस्य धर्मस्तथा, सर्वः स्यात्सदृशा नु दोषघटना सौत्रक्रमोलङ्घनात् । तत्सम्यग्विधिभक्तिपूर्वमुचितद्रव्यस्तवस्थापने, विद्मो नापरमत्र लुम्पक मुखम्लानिं विना दूषणम् ॥ २५ ॥ ॥ टीका – ' मिश्रस्ये' ति – यदि मिश्रस्येति हेतुगर्भ विशेषणं मिश्रत्वादिति यावत्, यदि अनुपदेश्यता साधूनामुपदेशाविषयता द्रव्यस्वस्य त्वया प्रतिज्ञायते, तदा श्राद्धस्य धर्मः सर्वस्तथानुपदेश्यः स्यात् तस्य मिश्रतायाः कण्ठरेवण सूत्रकृतेऽभिधानात् । इष्टापत्तिरत्र सर्वविरतिरूपस्यैव धर्मशास्त्रेऽभिधानादंशे स्वकृत्यसाध्यता प्रतिसन्धानेंऽश एव, तस्यार्थसिद्धदेशविरतिरूपत्वात्, ' जं सकइ तं कीरइ ' इत्यादि व्युत्पत्तिमतां तत्र प्रवृत्तिसंभवादिति चेन्न, द्वादशत्रतादिविभागस्य विशेषविधि , ' विधानात् ' इस्यपि क्वचित् पाठः ।
स्वोपक दृचिः
लो. २४
-२५
॥८३॥