SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ पतिमा स्वोपड दृचिः ॥८२॥ तदाश्रयणं युक्तं । अनुमोद्यनिमित्तलोकोपचारविनयोत्कर्षवाच तदत्यन्तोपयोगः दुर्गतरत्नाकररत्नलाभतुल्यत्वाद्वा यतीनां कृत्यप्रयत्नस्येति भावनीयं सुधीभिः ॥ २३ ॥ __ अथ द्रव्यस्तवस्य भक्तिहिंसोभयमिश्रत्वादेकानुमोदेन कथं नान्यानुमोदनमित्याशङ्कां निरस्यन् कवि स्वस्य प्रेक्षावत्तामाहकिं हिंसानुमतिर्न संयमवतां द्रव्यस्तवश्लाघये-त्येतल्लुम्पकलुब्धकस्य वचनं मुग्धे मृगे वागुरा । हृद्याधायसरागसंयमश्व त्यक्ताश्रवांशाःस्थिता भावानांशमदूषणा इति पुनस्तच्छेदशस्त्रं वचः ॥२४॥ व्याख्या-'किमिति संयमवतां चारित्रिणां द्रव्यस्तवश्लाघया द्रव्यार्चानुमोदनया किं हिंसानुमतिर्न भवति? अपि तु भवत्येव, पश्यन्तु दयारसिका ! इति भावः । एतद्वचनं लुम्पकलुब्धकस्य लुम्पाकमृगयोर्मुग्धे आपाततः श्रुतबाह्यधर्माचारे मृगे | वागुरा बन्धपाश इति व्यस्तरूपकं मुग्धपदमनभिज्ञश्रोतयर्थान्तरसमितवाच्यमिति, य एतद्वचनं श्रुतवान् स मृतवानेवेति व्यग्य इति, पुनस्तस्य पाशस्य छेदे शस्त्रं वचोऽस्मत्सांप्रदायिकानां इतीति, किं इह प्रक्रान्ते द्रव्यस्तवे द्रव्यभावोभयात्मके भाव एवाङ्गभूतो योऽशस्तं हृदि चित्ते आधाय स्थापयित्वा सरागसंयम इव त्यक्त उपेक्षित आश्रवांश भावभागो यैस्ते, तथा अदूषणा दोषरहिताः वयं स्थिताः स्मः। अयं भावः-सरागसंयमेऽनुमोद्यमाने यथा रागोनानुमोद्यता कुक्षौ प्रविशति तथा द्रव्यस्तवेऽनुमोद्यमाने हिंसांशोऽपि, संयमत्वेनानुमोद्यत्वे रागांशो नोपतिष्ठत एवेति द्रव्यस्तवत्वेनानुमोद्यत्वे सुतरां हिंसानुपस्थितिः, द्रव्यस्तवत्वशरीरस्याप्यघटकत्वात्तस्याः। इत्थमेव श्रीनेमिना गजसुकुमारस्य श्मशानमतिमापरिशीलनेऽनुज्ञाते तदविनाभावि तच्छि wwwwwwwwwwwwwwwwwwwww wwwww Marwww ॥८२॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy