SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Pा .२३ प्रतिमा | आर्षत्वात्सिदं, 'पूअणवत्तिआए' पूजनं गन्धमाल्यादिमिरर्चनं तत्मत्ययं, 'सकारवत्तिाए' सत्कारो वखाभरणा बतकम् . दिभिस्तत्पत्ययं । नन्वेतौ पूजासत्कारौ द्रव्यस्तवत्वात्सायोः 'छज्जीवकायसंजमो' इत्यादिवचनप्रामाण्यात्कयं नानुचितौ ! | स्वोपक्ष ॥८ ॥ चिः श्रावकस्य तु (तौ) साक्षात्कुर्वतः कायोत्सर्गद्वारेण तत्मार्थने कथं न नैरर्थक्य ! उच्यते, साधोव्यस्तवनिषेधः स्वयं करणमाश्रित्य, नतु कारणानुमती यतो 'अकसिण पबत्तगाणं' इत्याधुपदेशदानतः, कारणसद्भावो भगवतां विशिष्टपूजादिदर्शने प्रमोदादिनानुमतिरप्यस्ति, यदुक्तं-"मुबह य बयररिसिणा, कारवणं पिय अणुहियमिमस्स । वायगगयेसु तहा, आगया देसणा चेव ॥१॥" श्रावकस्य त्वेतौ संपादयतोऽपि भक्त्यतिशयादाधिक्यसंपादनार्थ प्रार्थयमानस्य न नैरर्थक्यं, कि चैते भगवन्तोऽत्यादरेण वन्द्यमानाः पूज्यमाना अप्यनन्तगुणत्वान्न वन्दिताः पूजिताः स्युरत्र दाणभद्रो रष्टान्तः । तदेवं पूजासत्कारौ भावस्तवहेनुत्वाद्भणनीयावेवेति । 'सम्माण वत्तिाए' सन्मानः स्तवादिभिर्गुणोत्कीतनं तत्पत्ययं, । अर्थता वन्दनाथाशंसाः किमर्थमित्याह, 'बोहिलाभवत्तियाए 'बोधिलाभः प्रेत्य जिनधर्मप्राप्तिस्तत्मत्ययं । एषोऽपि किंनिमित्तमित्याह, 'निश्वसग्ग वतिआए' निरुपसर्गो जन्मायुपसर्गरहितो मोक्षस्तत्प्रत्ययं च । अयं च कायोत्सर्गः श्रद्धादिरहितः क्रियमाणोऽपि नेष्टसाधक इत्यत आह, 'सद्धाए' इत्यादि, श्रद्धया स्वामिप्रायेण न बलाभियोगादिना । मेधया हेयोपादेयपरिज्ञानरूपया न जडत्वेन मर्यादावर्तितया वा नासमञ्जसत्वेन, धृत्या मनः स्वास्थ्येन न रागाद्याकुलतया । धारणयाईद्गुणाविस्मरणरूपया न तच्छून्यतया । अनुप्रेक्षयाईदणानामेव पुनः पुनश्चिन्तनेन न तवैकल्येन । 'वर्द्धमानयोत' प्रत्येकं श्रद्धादिभिः संबध्यते, एवमेतैहेतुभिस्तिष्ठामि करोमि कायोत्सर्गमिति वृत्तिः । द्रव्यस्तवानुमोदनापि भाव इति भावस्तवस्योपचयाय कायोत्सर्गद्वारा १ षष्ठ पंचाशके गा० ४५. M BI८ ॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy