________________
औपपा
अनगा०
तिकम्
सू०१६
॥ ५४॥
पक्षः बलं-संहननसमुत्थः प्राणः रूपम्-आकृतिः विनयज्ञाने प्रतीते दर्शन-सम्यक्त्वं चरित्रं-समित्यादि लज्जा-अपवादभीरुता संयमो वा लाघवंद्रव्यतोऽल्पोपधिता भावतो गौरखत्रयत्यागः (१०), 'ओअंसित्ति ओजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः 'तेयंसित्ति तेजः शरीरप्रभा तद्वन्तः तेजस्विनः 'वच्चंसित्ति वचो-वचनं सौभाग्याद्युपेतं येषामस्ति ते वचस्विनः, अथवा वर्च:-तेजः प्रभाव इत्यर्थः, तद्वन्तो वर्चस्विनः 'जसंसि'त्ति यशस्विनः-ख्यातिमन्तः (१४), जितक्रोधादीनि सप्त विशेषणानि प्रतीतानि, नवरं क्रोधादिजयः-उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः (२१), 'जीविआसमरणभयविप्पमुक्का' जीविताशया मरणभयेन च विप्रमुक्ताः, तदुभयोपेक्षका इत्यर्थः (२२), 'वयप्पहाणेति व्रत-यतित्वं प्रधानम्उत्तम शाक्यादियतित्वापेक्षया निर्ग्रन्थयतित्वाद्येषां व्रतेन वा प्रधाना ये ते तथा, निम्रन्थश्रमणा इत्यर्थः, ते च न व्यवहारत एवेत्यत आह-गुणप्पहाण'त्ति प्रतीतं, नवरं गुणाः-करुणादयः, गुणप्राधान्यमेव प्रपश्चयबाह-करणप्पहाणे' त्यादिविशेषणसप्तकं प्रतीतार्थ च, नवरं करणं-पिण्डविशुद्धयादि चरणं-महाव्रतादि निग्रहः-अनाचारप्रवृत्तेनिषेधनं निश्चयः-तत्त्वनिर्णयः विहितानुष्ठानेषु वा अवश्यंकरणाभ्युपगमः, आर्जवं-मायोदयनिग्रहः मार्दवं-मानोदयनिरोधः, लाघवं-क्रियासु दक्षत्वं शान्तिः-क्रोधोदयनिग्रह इत्यर्थः, मुक्ति:-लोभोदयविनिरोधो विद्याः-प्रज्ञप्त्यादिकाः मन्त्रा-हरिणेगमेण्यादिमन्त्राः वेदा:-आगमाः ऋग्वेदादयो वा ब्रह्म-ब्रह्मचर्य कुशलानुष्ठानं वा नया-नीतयः नियमा-अभिग्रहाः सत्यं-सम्यग्वादः शौचं-द्रव्यतो निलेपता भावतोऽनवद्यसमाचारः, यच्चेह चरणकरणग्रहणेऽप्याजबादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं (४१), 'चारुवण्ण'त्ति सत्कीर्तयः गौराद्यदात्तशरीरवर्णयुक्ता वा सत्प्रज्ञा वा 'लज्जातवस्सीजिइंदिय'ति लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा लज्जया तपाश्रिय च जितानीन्द्रियाणि यैस्ते लज्जातपाश्रीजितेन्द्रियाः, यद्यपि जितेन्द्रिया इति प्रागुक्तं, तथापीह लजातपोविशेषितत्वान्न पुनरुक्तत्वमवसेयमिति, 'सोहि ति सुहृदो-मित्राणि जीवलोकस्येति गम्यम् , अथवा शोधियोगाच्छोधयः-अकलुषहृदया इत्यर्थः, 'अणियाण'त्ति अनिदाना-निदानरहिताः (४५), 'अप्पुस्सुय'त्ति अल्पौत्सुक्या-औत्सुक्यवर्जिताः 'अपहिल्लेस'त्ति संयमादबहिर्भूतमनोवृत्तयः, 'अप्पडिलेस्सा [वा ]' अप्रतिलेश्या-अतुलमनोवृत्तयः, 'सुसामण्णरय'त्ति अतिशयेन श्रमणकर्मासक्ताः, 'दत्त'चि गुरुभिर्दमं ग्राहिताः विनयिता
XXXXXXXXXXXXXXXXXXX
हणेऽप्याजवादिग्रहणटानं वा नया-नीतयः वयविनिरोधो विद्यालय
RR
॥५४॥