SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अनंगा० औपपातिकम् ॥ ५२॥ स्थापितपादः प्रलम्बितभुजस्तिष्ठतीति, विशिष्टसंहननादियुक्त एव चैताः प्रतिपद्यन्ते, आह च-x"पडिवजह एयाओ संघयणधिइजुओ महासत्तो । पडिमाउ भावियप्पा सम्मं गुरुणा अणुनाओ॥१॥” इत्यादि । 'सत्तसत्तमियति सप्तसप्तमानि दिनानि यस्यां सा तथा, सा च सप्तभिर्दिनानां सप्तकर्भवति, तत्र च प्रथमदिने एका दत्तिभक्तस्यैकैव च पानकस्यैवं द्वयादिग्वेकोत्तरया वृद्धथा सप्तमदिने सप्त दत्तयः, एवमन्यान्यपि षट् सप्तकानि, अथवा प्रथमसप्तके प्रतिदिनमेका दत्तिर्द्वितीयादिषु तु द्वयादयो यावत्सप्तमे सप्तके प्रतिदिनं सप्तेति, एवमष्टाष्टमिका नवनवमिका दशदशमिका चेति, नवरं दत्तिवृद्धिः कार्येति । ___क्वचिदिह स्थाने भद्रासुभद्रामहाभद्रासर्वतोभद्राभद्रोत्तराश्च भिक्षुप्रतिमाः पठयन्ते, तत्र सुभद्रा अप्रतीता, शेषास्त व्याख्याताः प्राक, नवरं भद्रोत्तरास्थापना एवम्-५६७८18) प्रथमा पक्ति: १७८हाश६। द्वितीया ६६७१८। तृतीया ६६।। चतुर्थी ।महाश६७ पञ्चमीति । अथवा ।।६७८६।१०।११। प्रथमा पङ्क्तिः ।८।६।१०।११।५।६।७। द्वितीया ।११।२६।७८६।१०। तृतीया ।७८६।१०।११।५।६। चतुर्थी । १०११श६७८६ पञ्चमी ।६।७८३।१०।११शश षष्ठी ।।१०।१११६७८। सप्तमीति । 'खुड्डियं मोअपडिम'ति क्षुद्रिका-महत्यपेक्षया लघ्वी मोकप्रतिमा-प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्रवणस्याप्रतिष्ठापनेत्यर्थः, क्षेत्रतो ग्रामादेवहिर, कालतः शरदि निदाघे वा प्रतिपद्यते, तथा भुक्त्वा चेत प्रतिपद्यते तदा चतुर्दशभक्तेन समाप्यते, अभुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, भावतस्तु दिव्यादिकोपसर्गसहनमिति । एवं महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, अभुक्त्वा चेत्प्रतिपद्यते तदाऽष्टादशभक्तेनेति । 'जवमझ चंदपडिमति यवस्येव मध्यं यस्यां सा यवमध्या, चन्द्र इव कलावृद्धिहानियां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एक कवलं भिक्षा वा अभ्यवहृत्य प्रतिदिनं कवलादिवृद्धया पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पश्चदशैव भुक्त्वा प्रतिदिनमेकहान्या अमावास्यायामेकमेव यस्यां भुङ्क्ते सा स्थूलमध्यत्वात् यवमध्येति । 'वइरमझ चंदपडिमति वैरस्येव (बज्रस्येव) ४ प्रतिपद्यत एताः संहननघृतियुक्तो महासत्त्वः । प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः ।।१। ।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy