________________
औपपा
तिकम्
।। ४५ ।।
**********
तथा । 'खीरासव'त्ति क्षीरवन्मधुरत्वेन श्रोत्ॠणां कर्णमनःसुखकरं वचनमाश्रवन्ति - क्षरन्ति ये ते क्षीराश्रवाः । 'महुआसव' त्ति मध्वाश्रवाः प्राग्वत्, नवरं मधुवत्सर्व दोषोपशमनिमित्तत्वादाह्लादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः । 'सप्पिआसव'ति सपिराश्रवास्तथैव, नवरं श्रोणां स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीराश्रवमध्वाश्रवेभ्यो मेदेनोक्ताः । अक्खीण महाण सीय'त्ति महानसम् - अनपाकस्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं - पुरुषशतसहस्र भ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च भिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमइति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मतिः- मनःपर्यायज्ञानं येषां ते तथा । 'विउलमइ'त्ति विपुला-बहुविधविशेषणोपेतमन्यमान वस्तुग्राहित्वेन विस्तीर्णामतिः- मनः पर्यायज्ञानं येषां ते तथा तथाहि घटोऽनेन चिन्तितः स च द्रव्यतः सौवर्णादिः क्षेत्रतः पाटलिपुत्रकादिः कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव तथा अर्द्ध तृतीयाङ्गुलन्यूने मनुजक्षेत्रे व्यवस्थितसंज्ञिनां मनोग्राहिका आद्याः, इनरे तु सम्पूर्ण इति । 'विउध्यणि टिपत्त' ति विकुर्वेणावैक्रिय करणलब्धिः सैव ऋद्धिस्तां प्राप्ता ये ते तथा । 'चार 'ि चरण - गमनं तदतिशयवदस्ति येषां ते चारणाः, ते च द्विधा - जङ्घाचारणा विद्याचारणाश्च तत्राष्टमाष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च किञ्चिजङ्घाव्यापारमाश्रित्यैकेनैवोत्पातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तथा युक्ता आद्याः, या पुनः षष्ठं पष्ठेन क्षपत उत्पद्यते, यया श्रुतिविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चैकेन वोरपातेनेहागन्तुं समर्थों भवति तथा युक्ता द्वितीया इति । 'विजाहर'ति प्रज्ञप्त्यादिविविधविद्याविशेषधारिणः । 'आगासातिवाइणो'त्ति आकाशं - व्योमातिपतन्ति - अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा, आकाशाद्वा हिरण्यवृष्टयादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीला आकाशातिपातिनः, आकाशादिवादिनो वा-अमूर्तानामपि पदार्थानां साधने समर्थवादिन इति भावः १ ।
****
अनगा०
सू० १५
॥ ४५ ॥