________________
E
पूर्णमृदचे
ओपपातिकम्
॥८॥
***XXREKXXXXXXXXXXXXX
दिक-रचितवेदिकम् । 'लाउल्लोइयमहिए' लाइयं-यद्भुमेश्छगणादिनोपलेपनम् , उन्लोइयं-कुडयमालानां सेटिकादिभिः संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा (१३), 'गोसीससरसरत्तचंदणददरदिन्नपंचंगुलितले गोशीर्षेण-सरसरक्तचन्दनेन च दद्दरेण-बहलेन चपेटाप्रकारेण वा दत्ताः पश्चागुलयः तला-हस्तका यत्र तत्तथा (१४), 'उवचियचन्दणकलसे' उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यघटा यत्र तत्तथा । 'चंदणघडसुकयतोरणपडिदुवारदेसभाए' चन्दनघटाश्च सुष्टु कृततोरणानि च द्वारदेशभागं २ प्रति यस्मिस्तच्चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव (१६), 'आसत्तोसत्तविउलववग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सरत-उपरिसंबद्धः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः 'वग्धारिश्रो'त्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति (१७), 'पञ्चवण्णसरससुरभिमुक्कपुप्फपु. जोवयारकलिए' पञ्चवर्णेन सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत्तत्तथा (१८), 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघन्तगन्धुधुयाभिरामे' कालागुरुप्रभुतीनां धूपानां यो मघमघायमानो गन्धः उद्धृत-उद्धृतस्तेनाभिरामं यत्तत्तथा, तत्र 'कंदुरुक्कति चीडा 'तुरुक्कंति च सिल्हकं (१६), 'सुगन्धवरगंधगंधिए' सुगन्धा ये वरगन्धाः-प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा। 'गन्धवटिभूए' सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः (२०), 'नडन?' त्यादि पूर्ववन्नरमिह भुयगा-भुजङ्गा भोगिन इत्यर्थः, भोजका वा-तदर्चकाः 'मागधा' भट्टा इति (२१), 'बहुजणजाणवयस्स विस्य कित्तिए' बहोजनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकं-प्रतीतख्यातिकम् (२२) । 'बहुजणस्स आहुस्स'त्ति आहोतुः-दातुः, क्वचिदिदं न दृश्यते, 'आहुणिज्जे'त्ति आहवनीयं-सम्प्रदानभूतं । 'पाहुणिज्जेत्ति प्रकर्षेण आहवतीयं । 'अच्चणिज्जे' चन्दनगन्धादिभिः । 'वन्दणिज्जे' स्तुतिभिः । 'नमंसणिज्जे' प्रणामतः । 'पूयणिज्जे पुष्पैः। 'सकारणिज्जे' वस्त्रः। 'सम्माणणिज्जे बहुमानविषयतया (३१), 'कल्लाणं मङ्गलं देवयं चेइयं विणएणं पज्जुवासणिज्जे' कल्याणमित्यादिबुद्धथा विनयेन पर्युपासनीयं, तत्र 'कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवत' देवः चैत्यम् इष्टदेवताप्रतिमा 'दिव्वे' दिव्यं प्रधानम् 'सच्चे' सत्यं सत्यादेशत्वात् । 'सच्चोवाए' सत्यावपातम् । 'सत्यसेव' सेवायाः सफलीकरणात (३६)। 'सण्णिहियपाडिहेरे' विहितदेवताप्रातिहार्य ।
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX