SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ।।१८१1. सत्त्वाः एतेषां च पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति ९ । 'सेय'त्ति श्वेता, एतदेवाह-'आयसतवविमलसोल्लियमुणालदगरयतुसारगोषखीरहारवष्ण'त्ति व्यक्तमेव, नवरम् आदर्शतलं दर्पणतलं क्वचिच्छ सतलमिति पाठः, आदर्शतलमिव विमला या सा तथा, 'सोल्लिय'त्ति कुसुमविशेषः, 'सव्वज्जुणसुवण्णमई त्ति अर्जुनसुवर्ण-श्वेतकाशनं अच्छा आकाशस्कटिकमिव 'सण्ह'त्ति श्लक्ष्णपरमाणुस्कन्धनिष्पन्ना श्लक्ष्णतन्तुनिष्पन्नपटवत् 'लण्ह'त्ति मसृणा घुण्टितपटवन्, 'घट्ट'त्ति घृष्टेव घृष्टा खरशानया पाषाणप्रतिमावत्, 'मट्ट'त्ति मुष्टेव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'णीरय'त्ति नीरजा:-रजोरहिता 'णिम्मला' कठिनमलरहिता 'णिप्पंक'त्ति निष्पङ्का-आर्द्रमलरहिता अकलङ्का वा "णिक्ककडच्छाय'त्ति निष्कङ्कटा-निष्कवचा निरावरणेत्यर्थः छाया-शोभा यस्याः सा तथा अकलङ्कशोभा वा, 'समरीचियत्ति समरीचिका-किरणयुक्ता, अत एव 'सुप्पभ'त्ति सुष्ठ प्रकर्षेण च भाति-शोभते या न सा सुप्रभेति 'पासादीय'त्ति प्रसादो-मनःप्रमोदः प्रयोजनं यस्याः सा प्रासादीया 'दरिसणिज्ज'त्ति दर्शनाय-चक्षुर्व्यापाराय हिता दर्शनीया, तां पश्यच्चक्षुर्न श्राम्यतीत्यर्थः, अभिरूब'त्ति अभिमतं रूपं यस्या सा अभिरूपा, कमनीयेत्यर्थः, 'पडिरूव'त्ति द्रष्टारं द्रष्टारं प्रति रूपं यस्या सा प्रतिरूपा १० । 'जोयणमि लोगंतेति इह योजनमुत्सेधाङ्गुलयोजनमवसेयं, तदीयस्यैव हि क्रोशषड्भागस्य सत्रिभागस्त्रयस्त्रिंशदधिकधनुः शतत्रयीप्रमाणत्वादिति, 'अणेगजाइजरामरणजोणिवेयणं' अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा तं संसारकलंकलीभावपुणब्भवगब्भवासवसहीपवंचमइक्कता' संसारे कलङ्क-(ग्रन्था० ३०००)लीभावेन- असमन्जसत्वेन ये पुनर्भवाः-पौनःपुन्येनोत्पादा गर्भवासबसतयश्च-गर्भाश्रयनिवासास्तासां यः प्रपञ्चो-विस्तरः स तथा तमतिक्रान्ता-निस्तीर्णाः, पाठान्त रमिदम् 'अणेगजाइजरामरणजोणिसंसारकलंकली-भावपुणब्भवगब्भवासवसहिपवंचसमइक्वंतत्ति अनेकजातिजरामरणप्रधाना योनयो यत्र स तथा स चासौ संसारश्चेति समासः, तत्र कलङ्कलीभावेन यः पुनर्भवेन- पुनःपुनरुत्पत्त्या गर्भवासवसतीनां प्रपञ्चस्तं समतिक्रान्ता ये ते तथा ११ ॥ सू० ४३ ।। गाथा:-कहिं पडिहया सिद्धा?, कहिं सिद्धा पडिट्टिया? । कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झई ? ।।१।। १८१।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy