________________
ओपपातिकम् ॥६॥
सू० २
*KKRXXXXXXXXXXXXXXXXXXXXXXXXXX
शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसंसिद्धेर्जनानां निवृतत्वेन सुखितत्वेन च निवृतसुखा च या सा तथा, वाचनान्तरे छत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् (२४), 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटकं त्रिकोणं स्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्क-रथ्याचतुष्कमेलकं, चत्वरं-बहुरथ्यापातस्थानं, पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः, विविधवस्तूनि-अनेकविधद्रव्याणि, एभिः परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु पणियावणवि विहवेसपरिमंडिया' तत्र चतुर्मुखं-चतुभरि देवकुलादि, महापथो राजमार्गः, पन्थाः-तदितरः, ततश्च शृङ्गाटकादिषु पणितापणेः विविधवेषश्च जनैर्विविघवेश्याभिर्वा परिमण्डिता या सा तथा (२५), 'सुरम्मा' अतिरमणीया (२६) 'नरवइपविइण्णमहिवइमहा नरपतिना-राज्ञा प्रविकीणों-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गो यस्यां सा तथा, अथवा-नरपतिना प्रविकीर्णा-विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां सा तथा, अथवा-नरपतिभिः प्रविकीर्णा महीपतेः प्रभा यस्यां सा तथा (२७), 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा' अनेकवरतुरगैर्मत्तकुञ्जरैः रहपहकरत्ति-रथनिकरैः शिविकाभिः स्यन्दमानीभिराकीर्णा-व्याप्ता यानैयु ग्यैश्च या सा तथा, अथवा-अनेके वरतुरगादयो यस्यां आकीर्णानि च गुणवन्ति यानादीनि यस्यां सा तथा, तत्र शिबिका:-कूटाकारणाच्छादिता जम्पानविशेषाः, स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषाः, यानानि-शकटादीनि, युग्यानि गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति (२८), 'विमलणवणलिणिसोभियजला' विमुकुलाभि:-विकसितकमलाभिनवाभिनलिनीभिः-पयिनीभिः शोभितानि जलानि यस्यां सा तथा । 'पंडरवरभवणसण्णिमहिया' पाण्डुरैः-सुधाधवलैः वरभवन:-प्रासादेः सम्यक् नितरां महितेव महिता-पूजिता या सा तथा। 'उत्ताणणयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानिकः अनिमिषितैयनैः-लोचनैः प्रेक्षणीया या सा तथा (३१), 'पासाइया' चित्तप्रसत्तिकारिणी । 'दरिसणिज्जा' या पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूवा' मनोज्ञरूपा । 'पडिरूवा' द्रष्टारं २ प्रति रूपं यस्याः सा तथेति (३५) २॥ सू०१॥
तीसे णं चंपाए णयरीए पहिया उत्तरपुरस्थिमे दिसिभाए पुण्णभद्दे णामं चेहए होत्था १ । चिराईए पुव्वपुरिसपण्णत्ते