SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ कम 2 सू०४० आपपाति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्यमानो वा उत्कण्ठातिरेकान्निदयालिङ्गनेनापीड्यमानः, अप्रयास्यमानो वा समीहितपूरणेन | अम्मडा० प्रयासमकार्यमाणः, 'परिवंदिज्जमाणे'त्ति परिवन्द्यमानः स्तूयमानः, परिचुम्ब्यमान इति व्यक्तं, 'परं गिज्जमाणे'त्ति प(परि) रङ्गयमाणः चड्.क्रस्यमाणः, एतेषां च संहियमाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'निवाघाय'ति निर्वातं निर्व्याघातं च यदिगरिकन्दरं तदालीन इति ८ अथाधिकृतवाचना 'साइरेगट्टवरिसजायगं'त्ति सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तं ९ । 'अत्थउ'त्ति अर्थतो व्याख्या॥१६२।। | नत: 'करणओ यत्ति करणतः प्रयोगत इत्यर्थः । 'सेहावेहिति'त्ति सेधयिष्यति निष्पादयिष्यति 'सिक्खावेहिति' शिक्षयिष्यति-अभ्यास कारयिष्यति १० । 'विनयपरिणयमेत्त'त्ति क्वचित्तत्र विज्ञ एव विज्ञक: स चासौ परिणतमात्रश्च-बुद्धयादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुद्धधादिपरिणामस्याभिनवत्वस्यापनपरः, 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे श्रोत्रे द्वे नेत्रे द्वे धाणे एका च जिह्वा त्वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादब्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, | आह च व्यवहारभाष्ये 'सोत्ताइं नव सुत्ताई' इत्यादि, यजोही'त्ति हयेन-अश्वेन युध्यत इति ययोधी एवं रथयोधी बाहुयोधी च, 'बाहुप्रमर्दी'ति बाहुभ्यां प्रमृद्नाती त बाहुप्रमर्दी 'वियालचारी त्ति साहसिकत्वाद्विकालेऽपि रात्रावपि चरतीति विकालचारी, अत एव साहसिकः-सात्त्विकः 'अलं भोगसमत्थे'त्ति अत्यर्थं भोगानुभवनसमर्थः १२ । 'णो सज्जिहिति'त्ति न सङ्ग-सम्बन्धं करिष्यति No णो रज्जिहिति'ति न राग-प्रेम भोगसम्बन्धहेतुं करिष्यति 'नो गिज्झिहिति'त्ति नाप्राप्तभोगेष्वाकाङ्क्षां करिष्यतीति ‘णो अज्झोववज्जि हिति'त्ति नाध्युपपत्स्यते-नात्यन्तं तदेकानमना भविष्यतीति 'से जहाणामए'त्ति से इति अथशब्दार्थे अथशब्दश्च वाक्योपक्षेपार्थः, नामेति सम्भावनायाम् एवंशब्दो वाक्यालङ्कारार्थः, "उप्पलेति वा उत्पलमिति वा, उत्पलादिपदानां चार्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीक-सितपद्म 'पंकरएण'ति पङ्क-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् श्लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'कामरएणत्ति १ श्रोत्रादीनि नव सुप्तानि.
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy