SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ औपपाति कम् ।। १४८ ।। षडङ्गविदः- शिक्षादिविचारका: 'सट्ठितंतविसारय' त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे' ति सङ्खघाने - गणितस्कन्धे सुपरिनिष्टिता इति योग:, अथ षडङ्गानि दर्शयन्नाह 'सिक्खाकप्पे' त्ति शिक्षा च- अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च - तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र, 'वागरणे' त्ति शब्दलक्षणशास्त्रे 'छंदे' त्ति पद्यवचनलक्षणशास्त्रे 'निरुते' त्ति शब्दनिरुक्तिप्रतिपादके 'जोइसामयणे' त्ति ज्योतिषामयने-ज्योतिःशास्त्रे अन्येषु च बहुषु 'बंभण्णएसु य' त्ति ब्राह्मणकेषु च वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धिषु शास्त्रेष्वागमेषु वा वाचनान्तरे 'परिव्वायएस य नसुति परिव्राजक सम्बन्धिषु च नयेषु - न्यायेषु 'सुपरिनिट्ठिया यावि होत्य'त्ति सुनिष्णाताचाप्यभूवन्निति २० । ' आघमात्ति आख्यायन्तः - कथयन्तः 'पण्णवेमाण' त्ति बोधयन्तः 'परूवेमाण'त्ति उपपत्तिभिः स्थापयन्तः 'चोक्खा चोक्खा वार'त्ति चोक्षा-विमलदेहनेपथ्याः चोक्षाचारा - निरवद्यव्यवहाराः किमुक्तं भवतीत्याह - 'सुई सुईसमायार'त्ति, 'अभिसेयजलपूयप्पाणो त्ति अभिषेकतो जलेन पूयत्तिपवित्रित आत्मा यैस्ते तथा 'अविघेणं' विघ्नाभावेन, 'अगडं वत्ति अवटं - कूपं 'वावि वत्ति वापि चतुरस्र जलाशय विशेष: 'दुक्खरिणीं व' ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं वत्ति दीर्घिका-सारणी 'गुंजालियं व'त्ति गुञ्जालिका - वक्रसारणी 'सरसि वत्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नण्णत्थ अद्धाणगमणेणं'ति न इति यो निषेधः सोऽन्यत्राध्वगमनादित्यर्थः, 'सगडं वेत्यत्र यावत्करणादिदं दृश्यं - 'रहं वा जाणं वा जुग्गं वा गिल्लि वा थिल्लि वा पवहणं वा सीयं वेति एतानि च प्रागिव गाख्येयानीति, 'हरियाणं लेसणया वत्ति संश्लेषणता 'घट्टणया व'त्ति सङ्घट्टनं 'थंभणया वत्ति स्तम्भनम् - ऊर्ध्वोकरणं' 'लूसणया वत्ति कचित्तत्र भूषणं - हस्तादिना पनकादेः सम्मार्जनं 'उप्पाडणया वा' उन्मूलनं, 'अयवायाणि वेत्यादिसूत्रे यावत्करणात् त्रपुकसीसकरजतजातरूपकाच वेडन्तियवृत्तलोहकंसलोहारपुटकरीतिका मणिशङ्ख दन्त चर्मचे लशैलशब्दविशेषितानि पात्राणि दृश्यानि 'अण्णयराणि वा तहष्पगाराणि महद्धणमोल्लाई' इति च दृश्यं तत्रायो - लाहं रजतं-रूप्यं जातरूपं - सुवर्ण काचः - पाषाणविकारः वेडंतियत्ति - रूढिगम्यं वृत्तलेाहं - त्रिकुटीति यदुच्यते कांस्यलेाहं - कांस्यमेव १ प्रकरणवसात् परिव्राज ० [सू० ३८ ।। १४८ ।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy