________________
॥११९॥
मनोऽमाः 'मणोभिरामाहि' ति तत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिरामा अतस्ताभिः, 'वाचनान्तराधीतमथ' प्रायो वाग्विशेषणकदम्बकम् 'उरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहि' कल्याणाभिः-शुभार्थप्राप्तिसूचिकाभिः 'सिवाहि' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धण्णाहि' धन्याभि:-धनलम्भिकाभिः 'मंगल्लाहि मङगले-अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीयाहि' सश्रीकाभिः शोभायुक्ताभिः 'हिययगमणिज्जाहि' हृदयगमनीयाभिः, सुबोधाभिरित्यर्थः, "हिययपल्हायणिज्जाहि' हृदयप्रह्लादनीयाभिः हृदयगतकोपशोकादिग्रथिविलयनकरीभिरित्यर्थः, 'मियमहुरगंभीरगाहिगाहिं मिताः-परिमिताक्षराः मधुरा:-कोमलशब्दाः गम्भीरा-महाध्वनयः दुरवधायमप्यर्थं श्रोतृन ग्राहयन्ति यास्ता ग्राहिकाः, ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभिः, 'अठुसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सई बहुफलत्वमर्थतः 'सइयाओ अटुसइयाओ ताहि 'अपुनरुक्ताभि'रिति व्यक्त', 'वग्यूहि'ति वाग्भिः-गीभिः एकाथिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजयमंगलसहि' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतरित्यर्थः, अणवरयं अभिणंदता य' अभिनन्दयन्तश्च-राजानं सम द्धि मन्तमाचक्षाणा: 'अभिथुणंता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय गंदा !' जय जयेति सम्भ्रमे द्विवचनं नन्दति-सम द्धो भवतीति नन्दस्तस्यामन्त्रणमिदम, इह च दीर्घत्वं प्राकृतत्वात् अथवा जय त्वं जगन्नन्द-भुवनसम द्धिकारक ! | 'जय जय भद्दा !' प्राग्वत् नवरं भद्रः-कल्याणवान कल्याणकारी वा 'जय जय नन्दा भद्र ते' प्राग्वदेव, नवरं भद्रं ते तव भवत्विति
शेषः, 'अजिय'मित्यादीत्याशंसनानि व्यक्तानि १ । | इंदो इव देवाणं, चमरो इव असुराणं, धरणो इव नागाणं, चंदो इव ताराणं, भरहो इव मणुआणं, बहूई वासाई बहूई वाससआई बहूई वाससहस्साई बहूई वाससयसहस्साई अणहसमग्गो हटतुट्ठो परमाउ पालयाहि इट्ठजणसंपरिवुडो चपाए णयरीए अण्णेसि च
बहूणं गामागर-णयर-खेड-कब्बड-मडंब-दोणमुह-पट्टण-आसम-निगम-संवाह-संनिवेसाणं आहेबच्च पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं o आणाईसरसेणावच्चं कारेमाणे पालेमाणे-महयाऽऽहय-णट्टगीय-वाइय-तंतीतल-ताल-तुडिय-घण-मुअंग-पडुप्पवाइअरवेणं विउलाई भोगभोगाई
११९॥