SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ॥११५।। चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि- सुवर्णखचितानि दारुकाणि- काष्टानि येषु ते तथा तेषां, 'कालायससुकयनेमिजंतकम्माण'ति कालायसेन- लोहविशेषेण सुष्ठु कृतं नेमेः-चक्रगण्डधारायाः यत्र कर्म-बन्धनक्रिया येषां ते तथा तेषां, 'सुसिलिटुवत्तमंडलधुराणं'ति सुष्ठ श्लिष्टा वृत्तमण्डला-अत्यर्थं मण्डला धूर्येषां ते तथा तेषां, क्वचिदृश्यते 'सुसंविद्धचक्कमंडलधुराणं' सुसंविद्वानि-कृतसद्वेधानि चक्राणि-रथाङ्गानि येषां मण्डला च-वृत्ता धूर्येषां ते तथा तेषाम्, 'आइण्णवरतुरगसुसंपउत्ताणं' आकीर्णाः-जात्याः, 'कुसलनरच्छेयसारहिसुसंपग्गहिआण' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्च- आशुकारिप्राजितार इति समासः, तैः सुष्ट संप्रगृहीता ये ते तथा तेषां, क्वचित्पठ्यते 'हेमजालगवक्खजालखिखिणिघंटाजालपरिक्खित्ताणं' हेमजालं-सौवर्ण आभरणविशेषः गवाक्षजालं-जालकोपेता गवाक्षाः किङ्किण्यः-क्षुद्रघण्टिकाः घण्टास्तु-बृहद्घण्टास्तासां यज्जालं-समूहस्तत्तथा, हेमजालादिभिः परिक्षिप्ताः-परिकरिता ये ते तथा तेषां, 'बत्तीसतोणपरिमंडियाणं'ति द्वात्रिंशता तोणैः-भस्त्रक: परिमण्डिता ये ते तथा तेषां, क्वचित्पठचते 'बत्तीसतोरणपरिमंडियाणं'ति द्वात्रिंशद्विभागं यत्तोरणं तेन परिमण्डिताना, 'सकंकडवडेंसगाणं' सह कङ्कट:-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा ये ते तथा तेषां, 'सचाबसरपहरणावरणभरियजुद्धसज्जाणं' सह चापशरै:-धनुर्बाणैर्यानि प्रहरणानि-खड्गादीन्यावरणानि च-स्फुरकादीनि तेषां भरिता-भृता अत एव युद्धसज्जाः-रणप्रह्वा ये ते तथा तेषाम् ७ । 'असिसत्तिकृततोमरसूलल उलभिडिमालधणुपाणिसज्ज' अस्यादीनि प्रसिद्धानि नवरंशक्तिविशूलं शूलं त्वेकशूलं लउलोत्ति-लकुट: भिण्डिमालं-रूढिगम्यं, ततः अस्यादीनि पाणी-हस्ते यस्य तत्तथा तच्च तत्सज्जं चप्रगुणं युद्धस्येति समासः, पायत्ताणीय'ति पादातानीक-पदातिकटकं (ग्रन्थानं २०००) वाचनान्तरे पुनः 'सन्नद्धबद्धवम्मियकवयाणं' तत्र बद्धं कशाबन्धनात् वर्मितं च-वर्मीकृतं तनुशाणहेतोः शरीरे नियोजनात कवचम्-अङ्गरक्षको यस्ते तथा, सन्नद्धाश्च ते सन्नहन्या बन्धनाबद्धर्मितकवचाश्चेति समासस्तेषाम्, उप्पीलियसरासणवट्टियाणं' उत्पीडिता- आरोपितप्रत्यञ्चा शरासनपट्टिका-धनुर्यष्टियः, अथवा र उत्पीडिता-बाही बद्धा शरासनपट्टिका-धनुर्दण्डाकर्षणे बाहुरक्षार्थ चर्मपट्टो यैस्ते तथा तेषां, "पिनद्धगेवेज्जविमलवरबद्धचिंधपट्टाणं' पिनद्धं ) ॥११५॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy