________________
॥१०॥
हेइ, सण्णाहित्सा जेणेव बलवाउए तेणेव उवागच्छइ उवागच्छित्ता एअमाणत्तिअं पच्चप्पिणइ । तए णं से बलवाउए जाणसालिअं सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! सुभद्दापमुहाणं देवीणं बाहिरियाए उवट्ठाणसालाए पाडिएक्कपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठवेह २ ता एअमाणत्तिसं पच्चप्पिणाहि १ ।
'हत्थिवाउए'त्ति हस्तिव्यावतो महामात्रः, इह प्रदेशे 'आभिसेयं हत्थिरयणं'ति य.क्वचिद् दृश्यते सोऽपपाठः, अग्रे एतस्य वक्ष्यमाणत्वात् १ । 'छेआयरियउवएसमइकप्पणाविकप्पेहि' छेको-निपुणो य आचार्यः-शिल्पोपदेशदाता तस्योपदेशाद्या मतिः-बुद्धिस्तस्या ये कल्पना-विकल्पाः क्लृप्तिभेदास्ते तथा तैः, किंविधः ? -'सुणिउणेहिति व्यक्त, निपुणनरर्वा, 'उज्जलणेवत्थहत्थपरिवत्थिय'ति उज्ज्वलनेपथ्येन-निर्मलवेषेण हत्थंति-शोघ्रं परिपक्षितं-परिगृहीतं परिवृत्तं यत्तत्तथा तत्, पाठान्तरे उज्ज्वलनेपथ्यौरिति, 'सुसज्जति सुष्ठ प्रगुणं 'धम्मियसण्णद्धबद्धकवइय-उप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंतति धर्मणि नियुक्ता धार्मिकाः तैः सन्नद्धं-कृतसन्नाहं यत्तद्वार्मिकसन्नद्धं बद्धं कवचं-सन्नाहविशेषो यस्य तत्तथा, तदेव बद्धकवचिकम्, अथवा धर्मितादयः शब्दा एकार्था एव सन्नद्धताप्रकर्षख्यापनार्थाः, भेदो वैषामस्ति, स च रूढितोऽवसेयः, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि-उरसि यस्य तत्तथा, 'वक्षःकक्ष' इति पाठान्तरं, तथा बद्धं वेयक-ग्रीवाभरणं गले यस्य तत्तथा, तथा वरभूषणविराजमानं यत्तत्तथा, अवेयकबद्धभूषणविराजितमिति पाठान्तरं, ततो धर्मितादीनां कर्मधारयः, अतस्तत्, अहियतेयजुत्रांति प्रतीतं 'अहियरतेयजुत्तंति क्वचिदृश्यते, तत्राधिकाधिकेन- अत्यर्थमधिकेन अहितानां वा शत्रुणामहितेन-अपथ्येन तेजसा-प्रभावेण युक्तं यत्तत्तथा तत् । 'सललियवरकण्णपूरविराइयं' सललिते-लालित्योपेते बरे ये कर्णपूरे-कर्णाभरणे ताभ्यां विराजितं यत्तत्तथा तत्, 'पलबउच्चूलमहुअरकयंधयारं' प्रलम्बान्यवचूलानि-टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरै:-भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा, ततः कर्मधारयः, अतस्तत् वाचनान्तरं त्वेवं नेयं 'विरचितवरकर्णपूर सललितप्रलम्बावचूलं च चामरोत्करकृतान्धकारं च यत्तत्तथा तत्, चामरोत्करकृतान्धकारता तु चामराणां कृष्णत्वात्, 'चित्तपरिच्छेयपच्छयं