SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ॥ ५४१ ॥ सर्व कथयेत १. नेति दर्शयति-तर्कयित्वा' पर्यालोच्य पुरुषं, तद्यथा-कोऽयं पुरुषः कश्च नतोऽभिगृहीतोऽनमिगृहीतो मध्यस्था प्रकृतिमद्रको वेत्येवमुपयुज्य यथाहे यथाशक्ति चावेदयेत, सत्यां च शक्तौ पश्चावयवेनान्यथा वा वाक्येनानीहशम-अनन्यसदृशं स्वपरपक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथ सामर्थ्य विकल: स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह-सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे' त्य यथाभावे तु वाग्गुप्त्या व्यवस्थितः सन्नात्महितमाचरन् 'गोचरस्य' पिण्डविशुद्धथादेराचारगोचरस्य 'आनुपूा उद्गमप्रश्नादिरूपया सम्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः ?-आत्मगुप्तः सन् , सततोपयुक्त इत्यर्थः, नैतन्मयोच्यत इत्याह'बुद्धैः कन्प्याकम्प्यविधिज्ञैः एतत् पूर्वोक्तं प्रवेदितम् ॥ एतद्वा वक्ष्यमाणमित्याह से समणने असमणनस्स असमणं वा जाव नो पाहज्जा नो निमंतिजा नो कुजा याडियं परं आढायमाणे त्तिबेमि ॥ सू० २०५॥ न केवलं गृहस्थेभ्यः कुशीलेम्यो वा अकल्प्यमितिकृत्वाऽऽहारादिकं न गृह्णीयात् , स समनोज्ञोऽसमनोज्ञाय तत पूर्वोक्तमशनादिकं न प्रदद्यात् , नापि परम्-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति. ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यौँ । किम्भूतस्तहिं किम्भूताय दद्यादित्याह-- धम्ममायाणह पवेइयं माहणेण मइमया समणने समणनस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणे त्तिमि ॥ सू०२०६॥ इति द्वितीय उद्देशकः ॥ ८-२॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy