SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (सोलाका. 'धर्म' दानधर्म जानीत यूयं 'प्रवेदितं' कथितं, केन :-श्रीवर्द्धमानस्वामिना, किम्भूतेन ?–'मतिमता' केव विमो. ८ लिना, किम्भूतं धर्ममिति दर्शयति-यथा समनोज:-साधरुद्यक्तविहारी अपरस्मै-समनोज्ञाय चारित्रवते संविग्नाय उद्देशका ३ । साम्भोगिकायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुर्दा 'प्रदद्यात्' प्रयच्छेद , तथा तदर्थ च । निमन्त्रयेत् , पेशलमन्यद्वा वैयावृत्यम्-अङ्गमर्दनादिकं कुर्यात् , नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यः कुतीथिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तु समनोज्ञेभ्य एव परम्-अन्यर्थमाद्रियमाणस्तदर्थसीदने । परमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात् , तदेवं गृहस्थादयः कुशीलादयस्त्याज्या इति निदर्शितम् , अयं तु विशेषोगृहस्थेभ्यो यावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिभ्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति । इतिब्रवीमिशन्दौ पूर्ववद् । विमोक्षाध्ययने द्वितीयोदेशका समाप्तः ॥८-२॥ ॥५४२॥ ॥ अथ अष्टमाध्ययने ततीयोद्देशकः ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽकल्पनीयाहारादिप्रतिधोऽभिहितस्तत्प्रतिषेधकुपितस्य दातुर्यथावस्थितपिण्डदानप्ररूपणा च, तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताद्यङ्गोकम्पदर्शनान्यथाभाववतो गृहपतेर्यथावस्थितपदार्थावेदनतो गीतार्थेन साधुनाऽसदारेकाऽपने येत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy