________________
श्रीआचाराङ्गवृतिः
(शोलाङ्का.
॥ ५३८ ॥
यस्त्वं मम कृतेऽशनादि प्राण्युपमर्देन विदधासि यावदावसथसमुच्छ्रयं विदधासि भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात् कथम् १ - एतस्य - भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जानेऽहमिति ॥ तदेवं प्रसह्याशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधदित्याह
से भिक्खु परिक्कमिज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्त गाहावई आयगयाए पेहाए असणं वा ४ वत्थं वा ४ जाव आहहु चेएइ आवसहं वा समुदिसणाइ भिक्खू परिघासेउ तं च भिक्खू जाणिजा सहसम्मइयाए परवागरणेणं अन्नेसिंघा सुक्षा- अयं खलु गाहावई मम अट्ठाए असणं वा ४ वत्थं वा ४ जाव आवसहं वा समुस्सिणाइ, तं च भिक्खू पडिलेहाए आगमित्ता आणविला अणासेवणाए तिबेसि ॥ सु० २०३ ॥
,
तं क्षं कचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्रायः केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपमर्देनारमेत, किमर्थमिति चेद्दर्शयति - तदचनादिकं भिक्षु 'परिघासयितु' मोजयितु', साधुभोजनार्थमित्यर्थः, आवसथं च साधुभिरधिवासयितुमिति, तदशनादिकं साध्वर्थं निष्पादितं भिक्षुः 'जानीयात्' परिच्छिन्द्यात्, कथमित्याह - स्वसम्मत्या परव्याकरणेन वा
विमो०८ उद्दे शका २
॥ ५३८ ॥