SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॥ ५३७ ।। ********* वा पाञ्छनं वा समुद्दिश्य - आश्रित्य किं कुर्यादिति दर्शयति- पत्र वेन्द्रियोच्छ्वासनिश्वासादिसमन्त्रिताः प्राणिनस्तान, अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः सुखदुःखेष्विति सच्चास्तान् समारभ्य - उपमर्थ, तथाहि - अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कश्चित्प्रतिपद्येत इयं चाविशुद्धिकोटिगृ हीता सा चेमा - "" आहाकम्मुद्देसिअ मीसज्जा बायरा य पाहुडिआ । अ अज्झोयरगो उग्गमकोडी अ छन्भेआ || १ ||" विशुद्धिकोटिं दर्शयति- ' क्रीतं ' मूल्येन गृहीतं 'पामिच्चं ' ति अपरस्मादुच्छिन्नमुद्यतकं गृहीतं बलात्कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा 'अनिसृष्टं' परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं दत्तं तदनिसृष्टं तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य 'चेएमि'त्ति ददामि तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य त्रयात्, तथा 'आवसथं वा' युष्मदाश्रयं समुच्छृणोमि - आदेरारभ्यापूर्वं करोमि संस्कारं वा करोमीत्येवं प्राञ्जलिखनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा-भुङ्क्ष्वाशनादिकं मत्संस्कृतावसथे वसेत्यादि, द्विवचनबहुवचने अध्यायोज्ये । साधुना तु सूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह - आयुष्मन् ! श्रमण ! भिक्षो ! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमिति चेद्दर्शयति यथा - आयुष्मन् ! भो गृहपते ! न खलु तवैवंभूतं वचनमहमाद्रिये, खलुशब्दोऽपिशब्दार्थे, स च समुच्चये, नापि तदेतद्वचनं 'परिजानामि' आसेवनपरिज्ञानेन विदधेऽहमित्यर्थः, १ आधाक मौद्देशिके मिश्रजातं बादरा च प्राभृतिका पूर्तिश्च अध्यक्ष रक उद्गमकोटी च षड्भेदा ॥ १ ॥ *********** ॥ ५३७ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy