________________
श्रीआचारावृत्तिः (घीलाङ्का.)
܀܀܀܀܀܀܀܀܀܀܀܀
बिमो. ८ उद्देशका १
.५३४॥
दंड समारंभाविजा नेवन्ने एएहिं काएहिंदं समारंभंतेऽवि समणजाणेजा जेवऽन्ने एएहिं काएहिं दंड समारंभंति तेसिपि वयं लज्जामोतं परित्राय मेहावीतं वा दंडं अन्न धा
नो दंडभी दंड समारंभिजासि त्तिमि ॥ सू० २०१॥इति प्रथम उद्देशकः ॥ ८-१॥ ऊद्धर्वमधस्तियग्दिक्षु 'सर्वतः सर्वैः प्रकारैः सर्वा याः काश्चन दिशः चशब्दादनुदिशश्च णम्' इति वाक्यालङ्कारे 'प्रत्येक जीवेषु' एकेन्द्रियसूक्ष्मेतरादिकेषु यः कर्मसमारम्भ:-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम्' इति वाक्यालङ्कारे तं कर्मसमारम्भ ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत, कोऽसौ ?-'मेधावी' मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह-नैव स्वयमात्मना 'एतेषु' चतुर्दशभूतनामावस्थितेषु 'कायेषु' पृथिवीकायादिषु 'दण्डम्' उपमर्द समारमेत, न चापरेण समारम्भयेत् , नवान्यान् समारभमाणान् समनुजानीयात् , ये चान्ये दण्ड समारभन्ते, सुव्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयं लज्जाम इत्येवं कृताभ्यवसायः सन् तज्जीवेषु कर्मसमारम्भं महतेऽनय 'परिज्ञाप' ज्ञात्वा 'मेधावी' मर्यादावान , तथा पूर्वोक्तं दण्डमन्यद्वा मृषांवादादिकं दण्डाद्विभेतीति दण्डभीः सन् नो 'दण्डं' प्राण्युपमर्दादिकं समारमेथाः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत । विमोक्षाध्ययने प्रथमोद्देशक इति ॥८ ॥
܀܀܀܀܀܀܀܀܀܀܀܀
५३४॥