________________
॥ ५३३ ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
वेति !, तथाहि-तेऽप्यकृष्टभूमिवनवासिनो मूलकन्दाहारा वृक्षादिनिवासिनश्चेति, अत्राहाचार्य:-नारण्यवासादिना धर्मः, अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽसमनोज्ञास्ते इति । किं च-सदसद्विवेकिनो हि धर्मः, स च ग्रामे वा स्यात् अथवाऽरण्ये, नैवाधारो ग्रामो नैवारण्यं धर्मनिमित्तं, यतो भगवता न वसिममितरद्वाऽऽश्रित्य धर्मः प्रवेदितः, अपि तु जीवादितत्त्वपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत 'प्रवेदित' कथितं 'माहणण'त्ति भगवता, किम्भूतेन ?-'मतिमता' मननं-सर्वेपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः । किंभृतो धर्मः प्रवेदित इत्याह-'यामा' व्रतविशेषाः त्रय उदाहृताः, तद्यथा--प्राणातिपातो मृपावादः परिहै ग्रहश्चेति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवा यामा-चयोविशेषाः, तद्यथा--अष्टवर्षादात्रि
शतः प्रथमस्तत ऊद्धमाषष्टः द्वितीयस्तत ऊद्धवं तृतीय इति अतिबालवृद्धयोव्यु दासो, यदिवा यम्यते-उपरम्यते संसारभ्रमणादेभिरिति यामा:-ज्ञानदर्शनचारित्राणीति ते 'उदाहृता' व्याख्याताः, यदि नामैवं ततः किमित्याह-'येषु' अवस्थाविशेषेषु ज्ञानादिषु वा इमे देशार्या अपाक्तहेयधर्मा वा सम्बुध्यमानाः सन्तः समुत्थिताः, के ?-ये 'निवता:' क्रोद्याद्यपगमेन शीतीभृताः पापेषु कर्मसु 'अनिदाना' निदानरहिताः ते 'व्याख्याता:' प्रतिपादिता इति ॥क पुनः | पापकर्मस्वनिदाना इत्यत आह
उड्डअहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियक्क जीवेहि कम्मसमारम्भे जतं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिजा नेवन्ने एएहिं काएहिं
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀