________________
विमो. ८ उद्देशकः १
श्रीआचाराङ्गवृत्तिः (चोलाङ्का. ॥ ५३२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अदुवा रणे नेव गामे नेव रणे धम्ममायाणह पवेइयं माहणेण महमया, जामा तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुडिया, जे णिवुया पावेहिं
कम्मेहिं अणियाणा ते वियाहिया ॥ सू० २००॥ तद्यथा 'इदं' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि क्वचिदप्यप्रतिहतं 'भगवता' श्रीवर्द्धमानस्वामिना प्रवेदितम् , एतद्वाऽनन्तरोक्तं भगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति-आशुप्रज्ञेन, निरावरणत्वात् सततोपयुक्तेनेत्यर्थः किं यौगपद्यन !, नेति दर्शयति-'जानता' ज्ञानोपयुक्तेन, तथा 'पश्यता' दर्शनोपयुक्तेनैतत्प्रवेदितं, यथा नेपामेकान्तवादिनां धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य-भापासमितिः कार्येत्येतत्प्रवेदितं भगवता, यदिवा अस्ति नास्ति ध्रुवाध्रुवादिवादिना वादायोत्थितानां त्रयाणां त्रिषष्टयधिकानां प्रावादुकशतानां वादलब्धिमतां प्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तषणोपन्यासेन च तत्पराजयापादनतः सम्यगुत्तरं देयम्, अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि, वक्ष्यमाणं चेत्याह-तान् वादिनो वादायोत्थितानेवं ब्र याद्-यथा भवतां सर्वेषामपि पृथिव्यप्तेजो. वायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र 'सम्मतम्' अभिप्रेतमप्रतिषिद्धं 'पाप' पापानुष्ठानं, मम तु नैतत्सम्मतमित्येतद्दशयितुमाह-'तदेव' एतत्पापानुष्ठानमुप-सामीप्येनातिक्रम्य-अतिलय यतोऽहं व्यवस्थितोऽत एष मम विवेको व्याख्यातः, तत्कथमहं सर्वानातषिद्धास्रवद्वारीः संभाषणमपि करिष्ये ?, आस्तां तावद्वाद इत्येवमसमनजविवेकं करोतीति, अत्राह चोदक:-कथं तीथिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽनपस्विनो