________________
विषयः नो सुष्ठ निशान्त:-परिचितो भवति, ते चापरिणताचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह-'ते' अनधी- | | ताचारगोचरा भिचाचर्याऽस्नानस्वेदमल परीषहतजिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिताः इह मनुष्य- | लोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः तथा विहारारामतडागकूपकरणौदेशिकभोजनादिभिर्धर्म बदन्तोऽनुवंदन्तः, तथा जहि प्राणिन इत्येवमपरैर्घातयन्तो ध्नतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाकास्तिरोहितशुभाध्यवसाया: 'आददति' गृहन्तीति, किं च-तत्र प्रथमत्तीयवते अल्पवक्तव्यत्वात पूर्व प्रतिपाद्य ततो बहुतरवक्तव्यत्वात् द्वितीयव्रतोपन्यास इति, अथवेति' पूर्वस्मात पक्षान्तरोपक्षेपका, तद्यथा अदसं गृहन्त्यथवा वाचो विविधं-नानाप्रकाग प्रयुअम्ति, 'तद्यथेत्युपक्षेपार्थः, अस्ति 'लोकः' स्थावरजङ्गामात्मका, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा, अपरेषां तु ब्रमाण्डान्तर्वती, अपरेषां तु प्रभूतान्येवम्भतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठन्ते, तथा सन्ति जीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पश्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहुः-नास्ति लोको मायेन्द्रजालस्वप्नकल्पमेवैतत्सर्व, तथा ह्यविचारितरमणीयतया भूताभ्युपगमोऽपि तेषामतो नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुमे, किण्वादिभ्यो मदशक्तिवद्भतेभ्य एव चैतन्यमित्यादिना सर्व मायाकारगन्धर्धनगरतुल्यम्, उपपत्यक्षमत्वादिति, उक्तं च-'यथा यथाऽर्थाश्चिन्यन्ते, विविच्यन्ते (विचार्यन्ते) तथा तथा। यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम ? ॥१॥ भौतिकानि शरीराणि, विषयाः करणानि च । तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते ॥२॥" इत्यादि,
|| ५२७॥