SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रोआचा. विमो.. | उद्देशक (शीलाबा.) ॥५२८॥ तथा साङ्ख्यादय आहुः-'ध्रुवो' नित्यो लोकः, आविर्मावतिरोभावमात्रत्वादुत्पादविनाशयोः, असतोऽनुत्पादात् सतश्चाविनाशात, यदिवा 'ध्रवः निश्चलः, सरित्समुद्रभृभूधराभ्राणां निश्चलत्वात , शाक्यादयस्त्वाहुः-अध्वो लोकोऽनित्या, प्रतिक्षणं विशरारुस्वभावत्वात् , विनाशहेतोरभावात् नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात् , यदिवा 'अध्रवः' चलः, तथाहि-भूगोलः केषाश्चिन्मतेन नित्यं चलन्नेवास्ते, आदित्यस्तु व्यवस्थित एव, तत्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदयः आदित्यमण्डलाधो व्यवस्थितानां मध्याह्नः ये तु दूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको लोक इति प्रतिपन्नाः, तथा चाहु:-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम । अमतर्यमविज्ञेयं, प्रसुप्तमिव सर्वतः॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे। नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ २॥ केवलं गहरीभूते, महाभूतविवर्जिते। अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥३॥ तस्य तत्र शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिर्भ, हृद्यं काश्चनकर्णिकम् ॥ ४ ॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सष्टाः॥५॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम । विनता विहन्मानां माता विश्वप्रकाराणाम् ॥ ६॥ कन्ः सरीसृपाणां सुलसा माता तु नागजातोनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वषीजानाम् ।। ७॥" इत्यादि, अपरे तु पुनरनादिको लोक इत्येवं प्रतिपन्नाः, यथा शाक्या एवमाहुः- अनवदनोऽयं भिक्षवः ! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणानां सच्चानां न विद्यते, न च सचोत्पाद ॥ ५२८॥ m
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy