________________
श्रीआचाराङ्गवृत्तिः शीलाङ्का.)
॥ ५२४ ।।
******
पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्व्या सर्व विधाय सति सामर्थ्ये गुरुणाऽनुज्ञातो गिरिकन्दरं गत्वा स्थण्डिलं प्रत्युपेक्ष्य 'अथ' अनन्तरं पादपोपगमनं करोति, इङ्गितमरणं वा भक्तप्रत्याख्यानं वा यथासमाधि विधत्त इति गाथाचतुष्टयार्थः । अनया च द्वादश संवत्सरसंलेखनाऽऽनुपूर्व्या क्रमेण आहारं परितनुं कुवत आहारा मिलापोच्छेदा भवतीत्येतद्गाथाद्वयेन दर्शयितुमाह
कह नाम सो तवोकम्मपंडिओ जो न निच्चुजुत्तप्पा | लहुवित्तीपरिक्खेवं वचइ जेमंतओ चेव १ ॥ २७४ ॥ आहारेण विरहिओ अप्पाहारो य संवरनिमित्तं । हासतो हासतो एवाहारं निरु भिजा ॥ २७५ ॥
कथं नामासौ तपःकर्मणि पण्डितः स्यात् ? यो न नित्यमुद्युक्तात्मा सन् वर्त्तनं वृत्तिः - द्वात्रिंशत्कालपरिमाणलक्षणा तस्याः परिक्षेपः संक्षेपो वृत्तिपरिक्षेपः लघुवृचिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो भुआन एव न व्रजति कथमसौ तपःकर्मणि पण्डितः स्यात् १, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वा वासरान् स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थं १ – 'संवरनिमित्तम्' अनशननिमित्तं एवमसावुपवासैः प्रतिपारणकमन्पाहारतया च ह्रासयन् ह्रास्त्रयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः । उक्तो नामनिष्पन्नो निक्षेपस्तन्नियुक्ति, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
से बेमि समणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाहमं वा साइमं वा वत्थं वा पडिग्गहं वा कथलं वा पायपुच्छणं वा नो पादेना नो निमंतिज्जा नो कुज्जा
विमो०८ उद्द ेशकः १
॥ ५२४ ॥