SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५२३ ॥ दुर्वचनादिभिः कदर्थना क्रियते, यदि च तथापि न ज्वलति ततः शुद्ध इतिकृत्वाऽनशनदानेन प्रतिजागरणेन च प्रसादः क्रियत इति ॥ किम्भूतः पुनः क्रियन्तं वा कालं कथं वाऽऽत्मानं संलिखेदित्येतत् हृदि व्यवस्थाप्याह निष्फाईया य सीसा सउणी जह अंडगं पयत्तेणं । बारससंवच्छुरियं सो संलेहं अह करेइ ॥ २७० ॥ विचित्तारं विगईनिज्जूहियाह' चत्तारि । संवच्छरे य दुन्नि उ एगंतरियं तु आयामं ॥ २७१॥ नाइrिगिड्डो उ तयो छम्मासे परिमियं तु आयामं । अनेऽवि य इम्मा से होइ विगिडं तथोकम्मं ॥ २७२ ॥ वासं कोडीसहियं आयामं काउ आणुपुव्वीए । गिरिकंदरं मि मंतु पायवगमणं अह करेह ॥ २७३ ॥ सूत्रार्थतदुभयैः स्वशिष्याः प्रातीच्छका वा 'निष्पादिता' योग्यतामापादिताः शकुनिनेषाण्डकं प्रयत्नेन ततोऽसौ 'अथ' अनन्तरं द्वादश सांवत्सरिकीं संलेखनां करोति, तद्यथा चत्वारि वर्षाणि 'विचित्राणि' विचित्र तपोऽनुष्ठानवन्ति भवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृते पारणकं सविकृतिकमन्यथा वेति, पश्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं स्वेकान्तरितमाचाम्लमेकस्मिन्नहनि चतुर्थमपरेद्युरा चाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थं षष्ठं वा विधाय परिमितेनाचाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणावतः पूर्वोक्तमेव पारणकं, द्वादशं तु संवत्सरं कोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुङ्क्ते, आचाम्लस्य कोटयाः कोटिं मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तेलगण्डूषा न स्खलितनमस्काराद्यध्ययनाया पगतवात मुखयन्त्रप्रचारार्थं ॥ ५२३ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy