________________
श्रीआचारावृत्तिः (शीलाङ्का.)
विमो. ८ उद्देशकः १
॥५२२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
द्रव्यसंलेखनायां सु केवलायां दोषसम्भवादित्याहपडिचोइओय कुविओरण्णो जह तिक्ख सीयला आणा । तंबोले य विवेगो घट्टणया जा पसाओ य ॥२६९॥
प्रतिचोदितः सन्नाचार्येण पुनरांप संलिखेत्येवमभिहितः 'कुपितः' क्रुद्धो यथा च राज्ञः पूर्व तीक्ष्णाज्ञा पश्चाच्छीतलीभवति एवमाचार्यस्यापि, 'तम्बोले' नागवन्लीपत्रे च कुथिते शेषरक्षणाय 'विवेक' परित्यागः कार्यः, ततः 'घटना' कदर्थना कार्या, तत्सहिष्णोः पश्चाद्यावत् प्रसाद इति गाथाऽक्षरार्थः, भावार्थस्तु कथानकादवसेयः, तच्चेदम्-एकेन साधुना द्वादशवर्षसंखनयाऽऽत्मानं संलिख्य पुनरभ्युद्यतमरणायाचार्यो विज्ञप्तः, तेनाप्य भाणि-यथाऽद्यापि संलिख, ततोऽसौ कुपितः त्वगस्थिशेषामङगुली भक्त्वा दर्शयति, किमत्राशुद्धमिति ?, आचार्योऽपि येनाभिप्रायेणोक्तास्तमाविष्करोतिअत एवाशुद्धो भवान् , यतो वचनसमनन्तरमेवाङ्गुलीमङ्गद्वारेण भावाशुद्धतामाविष्कृतवानित्युक्त्वाऽऽचार्यस्तत्प्रतिबोधनाय दृष्टान्तं दर्शयति, यथा--कस्यचिद्राज्ञो नित्यं निष्पन्दिनी लोचने, ते च स्ववैद्योपन्यस्तानुष्ठानवतोऽपि न स्वस्थतामियाता, पुनरागन्तुकेन वैद्यनाभिहितः-स्वस्थीकरोमि भवन्तं यदि मुहूर्त वेदनां तितिक्षसे वेदनार्तश्च न मां घातयसीति, गज्ञा चाभ्युपगतं, अञ्जनप्रक्षेपानन्तरोद्भूततीववंदनानापगते ममाक्षिणी इत्येवंवादिना व्यापादयितुमारेभे, ततो राज्ञस्तीक्ष्णाज्ञा, यतश्च पूर्वमव्यापादनमभ्युपगतमतः शीतलेति, मुहूर्ताच्चापगतवेदनः पटुनयनश्च पूजितवैद्यो मुमुदे राजेति, एवमाचार्यस्यापि तीक्ष्णा प्रतिचोदनादिकाऽऽज्ञा परमार्थतस्तु शीतलति, यदि पुनरेवं कथितेऽपि नोपशाम्यति ततः शेषसंरक्षणार्थ विकृतनागवल्लीपत्रस्येव विवेकः क्रियते, अथाचार्योपदेशं प्रतिपद्यते ततो गच्छ एव तिष्टतो घट्टना
܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ ५२२ ॥