________________
॥ ५२१॥
आघाइयमाएसो अवरडो हुज्ज अन्नतरएणं । तोसलि महिसीइ हओ एवं वाघाइयं मरणं ॥२६७॥ विशेषेणाघातो व्याघात:-सिंहादिकृतः शरीरविनाशस्तेन निवृत्तं तत्र वा भवं व्यापातिम, कश्चित्सिहाद्यन्यतरेणापराद्धो भवेद-आरब्धो भवेत तेन यन्मरणं तद्वथाघातिमं, तत्र वृद्धवादायात आदेशो-दृष्टान्तः, यथा-तोसलिनामाचार्यों महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपगतः तद्वयाघातिमं मरणमिति गाथाऽक्षरार्थो, भावार्थस्त कथानकादवसेयः तच्चेदम-तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वाह्वयो महिष्यः सम्भवन्ति, ताभिश्च कदाचिदेका साधुरटव्यन्तर्वारब्धः, सच ताभिः नुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति ॥ साम्प्रतमव्याघातिमप्रतिपादनेच्छयाऽऽह
अणपुब्विगमाएसो पव्वज्जासुत्तअत्थकरणं च । वीसजिओ य निन्तो मुक्को तिवहस्स नीयस्स ॥२६८॥ __ आनुपूर्वी-क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ ?-आदेशो-वृद्धवादः, स चायं, तद्यथा-पूर्वमुत्थितस्य प्रव्रज्यादानं, ततः सूत्रकरणं पुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तस्त्रार्थः गुर्वादिनाऽनुज्ञातोऽभ्युद्यतो मरणत्रिकान्यतराय 'निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगामित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्या. निष्पाद्याऽपरमाचार्य विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसज्जितो गच्छानुज्ञया स्वस्था. पिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात् , एवमुपाध्यायः प्रवर्तिः स्थविरो गणावच्छेदकः सामान्यसाधर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिकर्मा भक्तपरिज्ञादिकं मरणमभ्युपेयात , तत्रापि भावसंलेखनां कुर्यात ॥
॥५२१॥