SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राजवृत्तिः (शीलावा.) विमो.6 उद्देशका १ ॥५२०॥ ४४४४४४ सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाह सपरकममाएसो जह मरणं होइ अजवइराणं । पायवगमणं च तहा एवं सपरकम मरणं ॥२६५॥ सह पराक्रमेण वर्तत इति सपराक्रम, किं तत् ?-मरणं आदिश्यते-इत्यादेशः आचार्यपारम्पर्यश्रत्यायातो वृद्धवादो यमैतिद्यमाचक्षते, स आदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरा'वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रम मरणमन्यत्राप्यायोज्यमिति गाथार्थः ॥ भावार्थस्त कथानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यविस्मृतकर्णाहितशृङ्गाबेरैः प्रमादादवगतासम्ममृत्युभिः सपराक्रमैरेव रथावर्त्तशिखरिणि पादपोपगमनमकारीति । साम्प्रतमपराक्रमं दर्शयितुमाह अपरकममाएसो जह मरण होइ उदहिनामाणं । पाओवगमेऽवि तहा एयं अपरकर्म मरणं ॥२६६ ॥ . न विद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत् ?--मरणं, तच्च यथा जङ्घाबलपरिक्षीणानामुदधिनाम्नाम्-आर्यसमुद्राणां मरणमभूद, अयमादेशो-दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद्-अपराक्रम मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः ।। भावार्थस्तु कथानकादवसेयः, तच्चेदम्-आर्यसमुद्रा आचार्याः प्रकृतिकशा एवासन , पश्चाच्च तैवावलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिगच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनमकारि ॥ साम्प्रतं व्याघातिममाह ॥ ५२०॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy