________________
॥ ५१६
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तत्र त्रिविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्मशरीरो धृतिसंहननवान् यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे मरणमिङ्गितमरणमिदं चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वतः एवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यं, तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोप-सामीप्येन गमनं-वर्तनं पादपोपगमनमेतच्च ज्ञातव्यं भवति, यो हि भवसिद्धिकश्चरम-अन्तिम मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन म्रियते, नान्येन वैहानसादिना बालमरणेनेत्येतच्चानन्तरोक्तं मरणं चेष्टामेदोपाधिविशेषात् वैविध्यमनुभवद्भावमोक्षं विजानीहीति गाथार्थः ॥ साम्प्रतमेतदेव मरणं सपराकमेत्रमेदाद् द्विविधमिति दर्शयितुमाह
सपरिकमे य अपरिकमए य वाघाय आणुपुवीए । सुत्तत्थजाणएणं समाहिमरण तु कायन्वं ॥२६॥ ___ 'पराक्रमः' सामर्थ्य सह पराक्रमेण वर्तत इति सपराक्रमस्तस्मिश्च मरणं स्यात, तद्विपर्यये चापराक्रमे-जवाबलपरिक्षीणे तद्भक्तपरिक्षेङ्गितमरणपादपोपगमनभेदास्त्रिविधमपि मरणं सपराक्रमेतरमेदात् प्रत्येकं द्वैविध्यमनुभवति, तदपि व्याघातिमेतरमेदात् द्विधा भवेत् तत्र व्याघातः सिंहव्याघ्रादिकृतोऽव्याघातस्तु प्रव्रज्यास्त्रार्थग्रहणादिकयाऽऽनुपूर्व्या विपक्त्रिममायुष्कक्षयमनुभवतो यो भवति सोऽव्याघात इहानुपुर्वीत्युक्तं, तत्र परमार्थोपक्षेपेणोपसंहरति-व्याघातेनानुपूा वा सपराक्रमस्यापराक्रमस्य वा मरणे समुपस्थिते सति सूत्राथन कालातया समाधिमरणमेव कर्त्तव्यं, भक्तपरिक्षेङ्गितमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयं, न वेहानसादिकं बालमरणं कर्त्तव्यमिति गाथार्थः॥ तत्र
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ ५१६ ॥