________________
श्रीआचाराङ्गवृत्ति:
श'लाङ्का.)
५१६ ॥
****
एवं खलु जीवे अट्ठकम्मपगडीओ बंधह" यदिवा - हतुप्पि अगन्तस्स रेणुओ लग्गई जहा अंगे । तह रागदोसणे हालियस कम्मंपि जीवस्स ॥ १ ॥" इत्यादि, तस्यैवम्भूतस्याष्टप्रकारस्य कणः आस्रवनिरोधात् तपसाऽपूर्वकरण क्षपक श्रेणि प्रक्रमेण शैलेश्यवस्थायां वा योऽसौ वियोग:- क्षयः स मोक्षो भवेदिति गाथार्थः ॥ अस्य प्रधानपुरुषार्थत्वात् प्रारब्धासिन्धाराव्रतानुष्ठानफलत्वात् तीर्थिकैः सह विप्रतिपत्तिसद्भावाच्च यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्व्वं कर्म्मवियोगोद्देशेन मोक्षस्वरूपमभिहितं साम्प्रतं जीववियोगोद्देशेन मोक्षस्वरूपं दर्शयितुमाह
-
जीवस्स अत्तजणिएहि चेव कम्मेहिं पुव्वबद्धस्स । सव्वविवेगो जो तेण तस्स अह इत्तिओ मुक्खो ॥ २६२ ॥ जीवस्यासङ्ख्येयप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव - मिथ्यात्वाविरतिप्रमादकषाययोगपरिणतेन तानि - वद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहापेक्षया तेन कर्म्मणा 'सर्वविवेकः' सर्वाभावरूपतया यो विश्लेषस्तस्य-जन्तोः ‘अथेत्युपप्रदर्शने एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पादिक इति गाथार्थः । उक्तो भावविमोक्षः, स च यस्य भवति तस्यावश्यं भक्तपरिज्ञादिमरणत्रयान्यतरेण मरणेन माव्यं, तत्र कारणे
कार्योपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतत्प्रतिपादयितुमाह
भत्तपरिन्ना इंगिणि पायवगमणं च होइ नावव्वं । जो मरह चरिममरणं भावविमुक्खं वियाणाहि ।। २६३।।
१ स्नेहक्षितगात्रस्य रेणुर्लंगति यथाऽङ्गे । तथा राग बस्ने हार्द्रस्व कर्मापि जीवस्य ॥ १ ॥
विमो०८
उद्द शक १
॥ ५१८ ॥