________________
भावविमोक्षो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्नो, नोागमतस्तु द्विधा-देशतः सर्वतश्च, तत्र देशतोऽविग्तसम्यग्दृष्टिनामाद्यकषायचतुष्कक्षयोपशमादेशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात क्षपकश्रेण्यां च यस्य यावन्मानं क्षीणं तस्य तत्क्षयाद्देशविमुक्तेत्यतः साधवो देशविमुक्ता, भवस्थकेवलिनोऽपि भवोपग्राहिसद्भावाद्देशविमुक्ता एव, सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः ॥ ननु बन्धपूर्वकत्वामोक्षस्य निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थ बन्धामिधानपूर्वकं मोक्षमाहकम्मयदव्वेहि समं संजोगो होइ जो उ जीवस्स । सो बंधो नायव्वो तस्स विओगो भवे मुक्खो ॥२६॥
'कर्मद्रव्यैः कर्मवर्गणाद्रव्यैः 'सम' सार्द्ध यः संयोगो जीवस्य स, बन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो बद्धस्पृष्टनिधतनिकाचनावस्थश्च ज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्मपुद्गलैबद्धः, बध्यमाना अप्यनन्तानन्ता एव, शेषाणामग्रहणयोग्यत्वात् , कथं पुनरष्टप्रकारं कर्म बध्नातीति चेद्, उच्यते, मिथ्यात्वोदयादिति, उक्तं च—'कहं णं भते ! जीवा अट्ठ कम्मपगडीओ बंधंति ?, गोअमा! णाणावरणिज्जस्स कम्मरस उदएणं दरिसणावरणिज्ज कम्मं निअच्छन्ति, दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं णियच्छन्ति, मिच्छत्तेण उइनेणं
१ कथं भदन्त ! जीवा अष्टकमप्रकृतीबंध्नन्ति ?, गौतम ! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीयं कर्म बध्नन्ति (उदयते), दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बध्नन्ति (उदयते), मिथ्यावेन उदीर्णेन एवं खलु जीवोऽष्टकर्मप्रकृतीबंध्नाति ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀