________________
श्रीआचा
राङ्गवृत्तिः
घोलाङ्का.)
५१४ ॥
॥ सप्तमं महापरिज्ञाख्यमध्ययनं व्युच्छिन्नम् ॥
॥ अथ विमोक्षाख्ये अष्टमाध्ययने प्रथमोद्द शकः ॥
उक्तं षष्ठमध्ययनं अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः तच्च व्यवच्छिन्नमिति कृत्वाऽतिलङ्घयाष्टमस्य सम्बन्धो वाच्यः स चायम् - इहानन्तराध्ययने निजकर्म्म शरीरोपकरणगौरवत्रिकोपसर्गसन्मान विधूननेन निःसङ्गताऽविहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसग्गः सोढव्या इत्येतत्प्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेन सम्बम्घेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारा यातोऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारः प्रागभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारी बिभणिपुराह
असमणुन्नस्स विमुक्खो पढमें बिइए अकप्पियविमुक्खो । पडिसेहणा य रुट्ठस्स चेव सन्भावकहणा य ॥ २५३ ॥ तइयंमि अंगचिट्ठा भासिय आसंकिए य कहणा य । सेसेसु अहीगारो उवगरणसरीरमुक्खेसु ॥ २५४ ॥ उद्देसंमि चउत्थे वेहाणसगिडपिट्ठमरणं च । पंचमए गेलन्नं भत्तपरिन्ना य घोडव्वा । २५५ ॥ छमि उ एगन्तं इंगिणिमरणं च होइ बोडव्धं । सत्तमए पडिमाओ पायवगमणं च नायव्वं ॥ २५६ ॥
**
विमो० ८ उद्दे शकः १
॥ ५१४ ॥