SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ टश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मिमतमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्तिप्तमारस्य पर्यन्तयायीति । किं च-विविध परीषहोपसगैर्हन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विणः सन् वैहानसं माईपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपःपरीषहोपसर्गः फलकवदवतिष्ठते न कातरीमवति, तथा कालेनोपनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिलपादपोगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः 'कालं' मरणकालमायुष्कक्षयं याक्च्छरीरस्य जीवेन सार्द्ध मेदो भवति तावदाकाक्षेद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारपरिसमाप्ती, ब्रवीमीत्यादिकं पूर्ववदिति, पञ्चमोदेशका, तत्समाप्तौ समाप्तं धृताख्यं षष्ठमध्ययनमिति ॥ ३-५॥०८३५॥ ॥५१३॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy